Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ सितम्बरमासः (हि.स.)। स्वच्छवायुदिवसस्य २०२६ तमस्य अवसरस्य पर्यावरण-वन-जलवायु-परिवर्तनमन्त्रालयेन राष्ट्रियस्वच्छवाय-कार्यक्रमस्य अन्तर्गतं पञ्चमस्वच्छवायु-सर्वेक्षणे श्रेष्ठप्रदर्शनं कृतवद्भ्यः नगरेभ्यः प्रभागेभ्यश्च पुरस्काराः प्रदत्ताः। अस्मिन् अवसरे वायुगुणवत्तासुधाराय स्वीकृतानां श्रेष्ठप्रबन्धनपद्धतीनां सङ्कलनमपि प्रकाशितम्।
दशलक्षाधिक-जनसङ्ख्यायुक्तानां स्वच्छवायुनगराणां श्रेण्यां लखनऊनगरं प्रथमस्थाने, इन्दौरनगरं द्वितीयस्थाने, जबलपुरं तृतीयस्थाने भोपालं चतुर्थस्थाने च स्थितम्। दिल्लीनगरेण अस्यां श्रेण्यां त्रिंशत्तमं स्थानं प्राप्तम्।
राष्ट्रियहरितन्यायाधिकरणस्य अध्यक्षः न्यायमूर्तिः प्रकाशश्रीवास्तवः उक्तवान् यत् स्वच्छवायुः विलासिता न, अपितु नागरिकाणां मूलभूतावश्यकता अस्ति। स्थानीयसंस्थाभिः प्रदूषणस्रोतसां नियन्त्रणं, आधुनिकप्रौद्योगिक्याः प्रयोगः जनसहभागिता च आधृत्य समग्ररणनीतिः स्वीकर्तव्या।सर्वेक्षणे राष्ट्रियस्वच्छवायकार्यक्रमस्य अन्तर्गतं समाविष्टानां १३० नगराणां त्रिषु जनसङ्ख्यावर्गेषु मूल्याङ्कनं कृतम्। मार्गधूलिः, दृढ-अपशिष्टप्रबन्धनम्, वाहनजनित-औद्योगिकप्रदूषणम्, निर्माण-विध्वंसजन्य-अपशिष्टम्, डीजिसेट् तथा व्यावसायिकप्रतिष्ठानजनित-उत्सर्जनम्, जनजागरूकताकार्यक्रमाश्च
मूल्याङ्कनस्य आधाराः आसन्।मन्त्रालयस्य अनुसारं २०१७-१८ वर्षस्य तुलनायां २०२५-२६ वर्षे १३० मध्ये १०८ नगरेषु पीएम-१० प्रदूषणस्य स्तरे सुधारः अभवत्।
Hindusthan Samachar / Divya Ranjan