प्रदेशसर्वकारः चिकित्साधिकारिभ्यः एनपीए-प्रदानस्य विषये विचारं करोति - मुख्यमन्त्री
शिमला, ०७ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री ठाकुरसुखविन्दरसिंहसुक्खुः अद्य अत्र स्वास्थ्यविभागस्य सभायाः अध्यक्षतां कुर्वन् अवदत् यत् राज्यसर्वकारः चिकित्साधिकारिभ्यः अभ्यासवर्जनभत्ता (नॉन-प्रैक्टिसिङ्ग अलाउन्स्—एनपीए) प्रदातुं विचारयति। सः अवदत
प्रदेशसर्वकारः चिकित्साधिकारिभ्यः एनपीए-प्रदानस्य विषये विचारं करोति - मुख्यमन्त्री


शिमला, ०७ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री ठाकुरसुखविन्दरसिंहसुक्खुः अद्य अत्र स्वास्थ्यविभागस्य सभायाः अध्यक्षतां कुर्वन् अवदत् यत् राज्यसर्वकारः चिकित्साधिकारिभ्यः अभ्यासवर्जनभत्ता (नॉन-प्रैक्टिसिङ्ग अलाउन्स्—एनपीए) प्रदातुं विचारयति। सः अवदत् यत् राज्यसर्वकारः प्रदेशे रोगिभ्यः विश्वस्तरीयाः स्वास्थ्यसेवाः उपलब्धाः कारयितुं प्रतिबद्धतया कार्यं करोति तथा च अस्मिन् दिशि अनेके पदक्षेपाः स्वीकृताः सन्ति, येषां सकारात्मकाः परिणामाः दृश्यन्ते। राज्यसर्वकारः प्रदेशस्य सर्वेषां चिकित्सा-महाविद्यालयानां सुदृढीकरणं प्राथमिकतया करोति तथा स्वास्थ्यसंस्थानेषु रिक्तानि सर्वाणि पदानि चरणबद्धरूपेण पूरयति।

सुक्खुः अवदत् यत् प्रदेशे कर्करोगस्य प्रकरणानां वृद्धिं दृष्ट्वा राज्यसर्वकारः सम्पूर्णे प्रदेशे कर्करोगपरिचर्यासंस्थानानां सुदृढीकरणाय ८०० कोटिरूप्यकाणि व्ययितुं गच्छति। सः कर्करोग-परिचर्यासंस्थानानां सुदृढीकरणाय भविष्यस्य कार्ययोजनां निर्मातुं विशेषज्ञसमित्याः गठनस्य निर्देशान् अपि दत्तवान्। राज्यसर्वकारेण दिल्ली इत्यस्य अखिलभारतीय-आयुर्विज्ञानसंस्थानस्य अनुरूपं अत्याधुनिकानां यन्त्राणां उपकरणानां च क्रयणस्य प्रक्रिया प्रचलति। अनेन प्रदेशे रोगिणां परीक्षणस्य उपचारस्य च सुविधाः अधिकाः उत्तमाः कर्तुं शक्यन्ते।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः चिकित्साक्षेत्रस्य विद्यार्थिभ्यः अध्यापकेभ्यः च विश्वस्तरीयाभिः उपचारपद्धतिभिः स्वास्थ्यसेवासु प्रयुज्यमानाभिः आधुनिक-कार्यप्रणालीभिः च परिचितान् कर्तुं विदेशेषु प्रतिष्ठितेषु विश्वस्तरीयेषु स्वास्थ्यसंस्थानेषु अध्ययनपरिचय-भ्रमणानि कारयितुं योजनां निर्माति। सः अवदत् यत् राज्यसर्वकारेण विद्यालयानां तकनीकी-संस्थानां च मेधाविभ्यः विद्यार्थिभ्यः विदेशेषु अध्ययनपरिचय-भ्रमणानि कारयन्ति। एतादृशेन शैक्षणिकभ्रमणेन बालकेभ्यः अन्ता-राष्ट्रियकार्यप्रणाल्याः परिचयस्य अवसरः प्राप्यते, येन तेषां कौशलस्य संवर्धनं भवति।

सुक्खुः अवदत् यत् राज्यसर्वकारः जीन-चिकित्सा तथा आणविकचिकित्सा इत्यादीनां नवीनानां स्वास्थ्योपचार-प्रविधीनां दिशि अपि अग्रे गन्तुं योजनां करोति।

Hindusthan Samachar / Divya Ranjan