मुख्यमन्त्री सायः अद्य रायपुरनगरे आयोज्यमानेषु विविधेषु कार्यक्रमेषु सहभागिता करिष्यति
रायपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः सोमवासरे राजधानीरायपुरे आयोज्यमानेषु विविधेषु कार्यक्रमेषु सहभागितां करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य अपराह्णे १:२० वादने मुख्यमन्त्रिनिवासात् लोकभवनस्य कृते प्रस
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः सोमवासरे राजधानीरायपुरे आयोज्यमानेषु विविधेषु कार्यक्रमेषु सहभागितां करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य अपराह्णे १:२० वादने मुख्यमन्त्रिनिवासात् लोकभवनस्य कृते प्रस्थास्यति। तत्र आयोज्यमाने शपथग्रहणसमारोहे सह-भागितां कृत्वा सः अपराह्णे २:२० वादने मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति।

तदनन्तरं मुख्यमन्त्री सायः अपराह्णे ३ वादने पण्डितदीनदयाल-उपाध्याय-सभागारं प्राप्स्यति। तत्र आयोज्यमाने रायपुरसम्भागस्य प्रबुद्धजनसम्मान-समारोहे कार्यकर्तृसम्मेलने च सः सहभागितां करिष्यति तथा कार्यक्रमं सम्बोधयिष्यति।

Hindusthan Samachar / Divya Ranjan