Enter your Email Address to subscribe to our newsletters

लखनऊ, 07 सितंबरमासः (हि.स.)।
मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः बालवाटिकास्तरादेव आधारभूतशिक्षायाः सुदृढां आधारशिलां निर्माति। अस्यैव क्रमस्य अन्तर्गतं अन्तर्राष्ट्रीयसाक्षरतादिवसे ८ सितम्बरदिने प्रदेशस्य सर्वेषु सहस्थितेषु आङ्गनवाडीकेंद्रेषु, बालवाटिकासु तथा जिलाशिक्षाप्रशिक्षणसंस्थासु आओ शृणुमः कथां कथयामश्च इति गतिविधिः आयोजिताः भविष्यति।
आधारभूतशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः सन्दीपसिंहः उक्तवान् यत् योगीसर्वकारः बालानां आधारभूतशिक्षायाः सुदृढं आधारं प्रदातुं शिक्षणप्रक्रियां आनन्देन सर्जनशीलतया च सह सम्बध्नाति। आओ शृणुमः कथां कथयामश्च इत्यादिभिः गतिविधिभिः बालवाटिकायाः बालकेषु भाषाकौशलस्य, कल्पनाशक्तेः अभिव्यक्तिक्षमतायाश्च विकासः भविष्यति।
महानिदेशिका मोनिकरानी उक्तवती यत् कथा बालानां शिक्षणस्य, चिन्तनस्य स्वकीयविचाराणां च सहजं माध्यमम् अस्ति। इयं गतिविधिः बालवाटिकायां बालानां कल्पनाशक्तिं सर्जनात्मकचिन्तनं च प्रोत्साहयन्ती साक्षरतायाः सुदृढां आधारशिलां निर्मातुं सहायकाभविष्यति। महानिदेशकायाः विद्यालयशिक्षायाः मोनिकरान्याः निर्देशानुसारम् आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यम् कथामाध्यमेन बालानां श्रवणक्षमतायाः, अवगमनस्य, स्वविचारप्रकटनस्य, कल्पनाशक्तेः सर्जनात्मकचिन्तनस्य च विकासः अस्ति।
सहस्थितेषु आङ्गनवाडीकेंद्रेषु बालवाटिकासु च स्वागतस्य स्वतन्त्रक्रीडायाश्च अनन्तरं कथासत्रम् आयोजितं भविष्यति। अस्मिन् राज्यस्तरात् उपलब्धायाः बृहद्कथापुस्तिकायाः अथवा स्थानीयकथायाः मध्ये वयानुरूपा तादृशी कथा चयनिता भविष्यति, यस्याः माध्यमेन नैतिकसन्देशोऽपि प्राप्येत। कथाकथनसमये बालकेभ्यः सीमितोत्तरयुक्ताः मुक्तोत्तरयुक्ताश्च प्रश्नाः पृच्छ्यन्ते तथा च तेभ्यः उत्तरप्रदाने प्रोत्साहनं प्रदास्यते। ततः बालकैः कथाम् आधृत्य चित्राणि निर्मापयिष्यन्ते तथा च तेभ्यः स्वविचारान् अभिव्यक्तुं अवसरः प्रदास्यते।
जिलाशिक्षाप्रशिक्षणसंस्थास्तरेऽपि कथावाचनं, संवादः, प्रश्नोत्तरं तथा सर्जनात्मकगतिविधयः आयोजिताः भविष्यन्ति। अस्मिन् समीपस्थाभ्यः बालवाटिकाभ्यः आङ्गनवाडीकर्मचारिणः, शैक्षणिकसंसाधनव्यक्तयः, बालकाः अभिभावकाश्च आमन्त्रिताः भविष्यन्ति। बालकेभ्यः कागदं वर्णान् च प्रदाय चित्रनिर्माणाय प्रोत्साहनं दास्यते तथा तेषां चित्राणि प्रदर्श्य तेषां प्रशंसायै विशेषं बलं प्रदास्यते। सर्वासु बालवाटिकासु प्रधानाध्यापकानाम्, आङ्गनवाडीकर्मचारिणां शिक्षणसहयोगिनां च सहभागिता सुनिश्चितं करिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani