श्रीराधाशक्तिश्याममन्दिरे भव्यतया आचरितः युगलजयन्ती-महोत्सवः, वैदिकमन्त्रघोषेण अभवत् अष्टसखीपूजनम्
फर्रुखाबादम्, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य लोहाईमार्गे स्थिते श्रीराधाशक्ति-श्याम-मन्दिरे श्रीमद्भागवतकथायाः अन्तर्गतं युगलजयन्ती-महोत्सवः तथा अष्टसखी-पूजनस्य दशाब्दीसमारोहः सोमवासरे महता श्रद्धोल्लासेन आचरितः। मन्दिर
पूजन करते भक्त


फर्रुखाबादम्, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य लोहाईमार्गे स्थिते श्रीराधाशक्ति-श्याम-मन्दिरे श्रीमद्भागवतकथायाः अन्तर्गतं युगलजयन्ती-महोत्सवः तथा अष्टसखी-पूजनस्य दशाब्दीसमारोहः सोमवासरे महता श्रद्धोल्लासेन आचरितः। मन्दिरपरिसरः पुष्पैः विद्युद्दीपैश्च सुसज्जितः आसीत्।

महोत्सवे विद्वद्भिः पण्डितैः वैदिकमन्त्र-घोषपूर्वकं श्रीराधाराण्याः अष्टसखीनां विधिवत् पूजनं कारितम्। पूजनं रेनूसिगतिया, रानीगुप्ता, संगीता, श्रुतिसिगतिया, मुदितगुप्ता, वीणा-अग्रवाल: इत्यादिभिः महिला-भक्तैः कृतम्। भक्तैः सखीभ्यः विविधाः उपहाराः समर्प्य आत्मानं धन्यं मन्यन्ते स्म। पूजनसमये ‘जय-जय श्रीराधे, राधाराणी की जय, बरसाने वाले की जय’ इति जयघोषैः मन्दिरप्राङ्गणं निनादितम्। श्रीराधा-गोपालसहस्रनाम्नः जापः अपि कृतः।

अष्टसखीप्रसङ्गस्य महत्त्वे प्रवचनं कुर्वन् डॉ. मनमोहनगोस्वामी अवदत् यत् श्रीराधाराणी भगवान् श्रीकृष्णस्य दिव्यस्य अलौकिकस्य प्रेम्णः, त्यागस्य समर्पणस्य च आध्यात्मिककलायाः देवी, पवित्रतायाः प्रेमभक्तेश्च सहचरी आसीत्। श्रीराधाराणी प्रकृतितत्त्वस्य स्वरूपा अस्ति तथा श्रीकृष्णः चेतनातत्त्वस्य स्वरूपः अस्ति। शरीरे आत्मा चेतनः अस्ति तथा प्रकृतिः तस्य आधारः अस्ति। सः अष्टसखीनां तत्त्वविवेचनं कुर्वन् अवदत् यत् ललितासखी जलतत्त्वस्य, विशाखा अग्नितत्त्वस्य च प्रतीका अस्ति। एवं प्रकारेण अन्याः सख्यः आकाशस्य, वायोः, पृथिव्याश्च तत्त्वानां प्रतिनिधित्वं कुर्वन्ति।

डॉ. गोस्वामी अवदत् यत् अष्टसखीनां गुणाः अद्यतनमानवजीवनाय प्रेरणादायकाः सन्ति। ललिता प्रमुखसेविका, विशाखा बुद्धेः कलायाश्च, चम्पकलता व्यञ्जन-कलायां निपुणा, चित्रा चित्रकलायां सङ्गीते कवितायां च, तुङ्गविद्या नृत्यकलायां नाट्यशास्त्रे च, इन्दुलेखा रूपसज्जायाम् आभूषणकलायां च, रङ्गदेवी सुगन्धकलायां तथा सुदेवी सहयोगिनी इति रूपेण निपुणाः आसन्। सः गुरुतत्त्वस्य महत्त्वे प्रकाशं कुर्वन् अवदत् यत् गुरुः माता अस्ति, पिता अस्ति, शिक्षकः अस्ति तथा जीवनस्य पथप्रदर्शकः अस्ति। गुरुमहिमा अपरम्पारा अस्ति।

कार्यक्रमे भक्तैः ठाकुरजी-श्रीराधाराण्योः भगवत: श्रीकृष्णस्य च चरणोदकं गृहीत्वा भजनकीर्तनं कृतम्। कार्यक्रमस्य समापनं महाआरत्या प्रसादवितरणेन च अभवत्। कार्यक्रमस्य सञ्चालनम् अञ्जुमदुबे इत्यनया कृतम्। स्वागतं कृतज्ञतां च सुरेन्द्रकुमारसफ्फड़ः व्यक्तवान्।

अस्मिन् अवसरे डॉ. मनमोहनगोस्वामी, डॉ. मनोजमेहरोत्रा, पवन-अग्रवालः, हर्षित-सिगतिया, अनुज-अग्रवालः, रोहित-सफ्फड़ः, वैशालीसफ्फड़ः, महेशवर्मा, गौरव-अग्रवालः, संजीवगुप्तः, शिवराम-गुप्तः इत्यादयः शताधिकाः भक्ताः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan