राज्यपालेन संजयकुमार-अग्रवालाय राजस्थानोच्चन्यायालयस्य मुख्यन्यायाधीशपदस्य शपथः प्रदापित:
जयपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। राज्यपालः हरिभाऊबागडे सोमवासरे लोकभवने न्यायमूर्तिं संजयकुमाराग्रवालं राजस्थानोच्चन्यायालयस्य मुख्यन्याया-धीश-पदस्य शपथं ग्राहयितवान्। न्यायमूर्तिः संजयकुमार-अग्रवालः आङ्ग्ल-भाषायां शपथं गृहीतवान्। समारोहस्य प्र
शपथ


जयपुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। राज्यपालः हरिभाऊबागडे सोमवासरे लोकभवने न्यायमूर्तिं संजयकुमाराग्रवालं राजस्थानोच्चन्यायालयस्य मुख्यन्याया-धीश-पदस्य शपथं ग्राहयितवान्। न्यायमूर्तिः संजयकुमार-अग्रवालः आङ्ग्ल-भाषायां शपथं गृहीतवान्।

समारोहस्य प्रारम्भे मुख्यसचिवः वी. श्रीनिवासः राज्यपालं प्रति संजयकुमार-अग्रवालस्य शपथग्रहणं कारयितुं अनुरोधं कृतवान्। ततः पूर्वं तेन राष्ट्रपति-द्रौपदीमुर्मु-महोदयया निर्गतां मुख्यन्यायाधीशस्य नियुक्तिसम्बन्धिनीम् अधिसूचनां नियुक्तिपत्रं च पठित्वा श्रावितम्।

समारोहे मुख्यमन्त्री भजनलालशर्मा, उपमुख्यमन्त्री दिया-कुमारी, डॉ. प्रेमचन्दबैरवा, मन्त्रिमण्डलस्य सदस्याः, जनप्रतिनिधयः, राजस्थानोच्चन्याया-लयस्य न्यायाधीशाः, अधिकारिणः, अधिवक्तारः तथा मुख्यन्यायाधीशस्य संजयकुमार-अग्रवालस्य परिजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan