चिकित्सा क्षेत्रे परीक्षण उपकरणानां शतप्रतिशतं व्ययं वहति सर्वकारः - पीयूष गोयलः
नव दिल्ली, 07 सितंबरमासः (हि.स.)। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः सोमवासरे वैश्विकग्राहकेभ्यः उच्चगुणवत्तायुक्तानि चिकित्सोपकरणानि विकसितुं आवश्यकतायाः विषये बलं दत्तवान्। तेन उक्तं यत् केन्द्रसर्वकारः परीक्षणोपकरणानां क्रयणाय शतप्रतिशतं
दवा उद्योग से जुड़े दो कार्यक्रमों को संबोधित करते पीयूष गोयल


दवा उद्योग से जुड़े दो कार्यक्रमों को संबोधित करते पीयूष गोयल


नव दिल्ली, 07 सितंबरमासः (हि.स.)।

केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः सोमवासरे वैश्विकग्राहकेभ्यः उच्चगुणवत्तायुक्तानि चिकित्सोपकरणानि विकसितुं आवश्यकतायाः विषये बलं दत्तवान्। तेन उक्तं यत् केन्द्रसर्वकारः परीक्षणोपकरणानां क्रयणाय शतप्रतिशतं धनराशिं प्रदातुं सज्जः अस्ति।

पीयूषगोयलेन नवदेहल्यां औषधोद्योगसम्बद्धयोः द्वयोः कार्यक्रमयोः सम्बोधनसमये एतत् कथितम्। तेन उक्तं यत् स्वदेशीयकम्पनयः प्रौद्योगिक्याः सहभागितां कुर्युः, संयुक्तोपक्रमान् प्रोत्साहयेयुः तथा च वैश्विकनवोन्मेषकान् बृहदौषधकम्पनीश्च भारतम् आगन्तुं आमन्त्रयेयुः।

केन्द्रीयवाणिज्योद्योगमन्त्री नवदेहलीस्थे भारतमण्डपे आयोजिते फार्मामैकटेक् तथा लैबनेक्स्ट् एक्स्पो २०२६ इत्यस्मिन्, भारतहेल्थग्लोबलएक्स्पो २०२६ इत्यस्मिन् च संजीवनी २०२६ इत्यस्य उद्घाटनसमारोहं सम्बोधितवान्। तेन उक्तं यत् प्रथमप्राथमिकता परिचर्याकर्तॄणां प्रशिक्षणं प्रमाणनं च भवेत् तथा अन्तर्राष्ट्रीयमानकानुरूपां स्वास्थ्यसेवां प्रदातुं समर्थं कुशलं कार्यबलं विकसितव्यम्।

गोयलेन उक्तं यत् उच्चगुणवत्तां संरक्ष्य स्वकीयक्षमताः सुदृढाः करणीयाः तथा महत्त्वपूर्णानां कलपुर्जानां सुदृढं परिवेशं निर्मातव्यम्। एतादृश्यः साझापरीक्षणसंरचनासुविधाः निर्मातव्याः, यत्र एतेषाम् उपकरणानां परीक्षणं मूल्याङ्कनं च कर्तुं शक्येत, विश्वस्य श्रेष्ठमानकैः तेषां परीक्षणं कृत्वा वैश्विकग्राहकेभ्यः प्रमाणितानि प्रदर्शितानि च कर्तुं शक्येरन्।

तेन उक्तं यत् भारतीयमानकब्यूरो इत्यस्य माध्यमेन चिकित्सोपकरणानां कृते आवश्यकानां श्रेष्ठपरीक्षणोपकरणानां मूल्यस्य शतप्रतिशतं वहनं कर्तुं सर्वकारः सज्जः अस्ति। केन्द्रसर्वकारः परीक्षणोपकरणानां क्रयणाय शतप्रतिशतं धनराशिं प्रदास्यति। तेन उद्योगजगतः आह्वानं कृतं यत् ते सर्वकारं प्रति स्वीयान् प्रस्तावान् प्रेषयेयुः। तेन उक्तं यत् सर्वकारेण अत्याधुनिकप्रयोगशालाः स्थापिताः करिष्यन्ते।

गोयलेन स्वकीयसम्बोधने अभिकल्पना, प्रतिलिप्यधिकारः, पेटेण्टविधयः तथा बौद्धिकसम्पदधिकारव्यवस्थायाः सुधारस्य आवश्यकता अपि प्रतिपादिता, येन विश्वस्य जनाः भारतं प्रति आकर्षिताः भवेयुः तथा देशः नवोन्मेषस्य वैश्विककेन्द्ररूपेण विकसितुं शक्नुयात्।

तेन उक्तं यत् भारतस्य समीपे व्ययस्य दृष्ट्या महत्त्वपूर्णः लाभः अस्ति। गोयलेन उक्तं यत् प्रौद्योगिक्याः सहभागिता करणीया, क्रेतृविक्रेतृणां मध्ये उत्तमसम्बन्धाः स्थापनीयाः तथा संयुक्तोपक्रमाः प्रोत्साहनीयाः। यत्र आवश्यकता भवेत् तत्र मिलित्वा अभिकल्पनं विकासं च करणीयम् तथा अन्यैः देशैः सह संयुक्तानां अनुसन्धानविकासकेन्द्राणां स्थापनायाः सम्भावनाः अन्वेष्टव्याः।

केन्द्रीयमन्त्रिणा बीमाकम्पनीभ्यः स्वास्थ्यप्रौद्योगिकीकम्पनीभ्यश्च तादृशानां उत्पादानां मञ्चानां च विकासाय निर्देशः दत्तः, येन रोगिणां कृते उपचारप्रक्रिया अधिका सुगमा भवेत् तथा तेभ्यः समये एव भुगतानं प्राप्तुं शक्येत। तेन उद्योगजगतः परिचर्याकर्तॄन् स्वास्थ्यकर्मिणः प्रशिक्षितुं प्रमाणीकर्तुं च तथा अन्ताराष्ट्रियमानकानुरूपाः स्वास्थ्यसेवाः प्रदातुं समर्थं कुशलं कार्यबलं निर्मातुम् आह्वानं कृतम्।

गोयलेन उक्तं यत् विगतेषु सप्तसु वर्षेषु भारतस्य चिकित्सामूल्यपर्यटनसम्बद्धव्यवस्थातः पञ्चत्रिंशल्लक्षं रोगिणः लाभान्विताः सन्ति। तेन उक्तं यत् देशस्य लक्ष्यं प्रतिवर्षं एककोटिरोगिभ्यः स्वास्थ्यसेवां प्रदातुम् भवेत्।

---------------

Hindusthan Samachar / Dheeraj Maithani