न्यायमूर्तिः कृष्ण राम महापात्रः छत्तीसगढ़ उच्च न्यायालयस्य मुख्य न्यायाधीशस्य पदस्याऽगृह्णात् शपथवचनम्
रायपुरम्, 07 सितंबरमासः (हि.स.)। राज्यपालः रमेन् डेका सोमवासरे लोकभवने स्थिते छत्तीसगढ-मण्डपम् इत्यत्र न्यायाधिपतिं कृष्णराम-महापात्रं छत्तीसगढ-उच्चन्यायालयस्य मुख्यन्यायाधीशपदस्य शपथं अकारयत्। ततो पूर्वं न्यायमूर्तिः महापात्रः ओडिशा-उच्चन्यायालय
राज्यपाल रमेन डेका न्यायाधिपति कृष्ण राम महापात्र को  पद की शपथ दिलाते हुए


राज्यपाल मुख्य न्यायाधीश कृष्ण राम महापात्र को राष्ट्रपति द्वारा जारी मूल वारंट की प्रति सौंपते हुए


रायपुरम्, 07 सितंबरमासः (हि.स.)।

राज्यपालः रमेन् डेका सोमवासरे लोकभवने स्थिते छत्तीसगढ-मण्डपम् इत्यत्र न्यायाधिपतिं कृष्णराम-महापात्रं छत्तीसगढ-उच्चन्यायालयस्य मुख्यन्यायाधीशपदस्य शपथं अकारयत्। ततो पूर्वं न्यायमूर्तिः महापात्रः ओडिशा-उच्चन्यायालयस्य वरिष्ठन्यायाधीशरूपेण कार्यरतः आसीत्।

शपथग्रहणानन्तरं राज्यपालः मुख्यन्यायाधीशाय कृष्णराम-महापात्राय राष्ट्रपतिना निर्गतस्य मूल-वारण्टस्य प्रतिलिपिं समर्पितवान् तथा पदभारग्रहणाय तस्मै बधाईम् शुभकामनाञ्च अयच्छत्।

अस्मिन् अवसरे मुख्यमन्त्री विष्णुदेवसायः, उपमुख्यमन्त्री विजयशर्मा, विद्यालयशिक्षामन्त्री गजेन्द्रयादवः, स्वास्थ्य-मन्त्री श्यामबिहारी-जायसवालः, केन्द्रीय-कृषि-राज्यमन्त्री तोखनसाहुः, पूर्वमुख्यमन्त्री भूपेशबघेलः, पूर्वराज्यपालः रमेशबैसः, राज्यसभासांसद् लक्ष्मीवर्मा, विधायकौ सुनीलसोनी तथा अनुजशर्मा इत्यादयः अनेके जनप्रतिनिधयः उपस्थिताः आसन्।

समारोहे मुख्यन्यायाधीशस्य महापात्रस्य धर्मपत्नी अनिता-महापात्रा सहितं छत्तीसगढ-उच्चन्यायालयस्य न्यायाधीशाः अपि उपस्थिताः आसन्। प्रदेशस्य मुख्यसचिवः विकासशीलः राष्ट्रपतिना निर्गतस्य वारण्टस्य वाचनं कृत्वा शपथग्रहणसमारोहस्य संचालनमकरोत्।

अस्मिन् अवसरे अपरमुख्यसचिवः सुब्रतसाहुः, गृहविभागस्य प्रमुखसचिवा निहारिका-बारिक्, पुलिस-महानिदेशकः अरुणदेवगौतमः, राज्यपालस्य सचिवः डॉ. सी.आर. प्रसन्नः, महाधिवक्ता विवेकशर्मा, उच्चन्यायालय-बिलासपुरस्य रजिस्ट्रार-जनरलः रजनीशश्रीवास्तवः इत्यादयः राज्यशासनस्य वरिष्ठाः अधिकारिणः तथा उच्चन्यायालयस्य अधिवक्तारः उपस्थिताः आसन्।

उल्लेखनीयं यत् न्यायमूर्तिः कृष्णराम-महापात्रः छत्तीसगढ-उच्चन्यायालयस्य षोडशतमः मुख्यन्यायाधीशः भविष्यति।

---------------