Enter your Email Address to subscribe to our newsletters



पूर्वीसिंहभूमिः, ०७ सेप्टेम्बरमासः (हि.स.)। जमशेदपुरस्य विद्युत्-लोकोपायलट्-प्रशिक्षणकेन्द्रे सोमवासरे रेल-सिविल-डिफेन्स-विभागस्य पक्षत: लोकोपायलट्-चालकेभ्यः विशेषप्रशिक्षणकार्यक्रमः आयोजितः। अस्मिन् दुर्घटनायाः अन्यासु च आपत्कालीनपरिस्थितिषु शीघ्रसहायता, प्राथमिकोपचारः, अग्निशमनम्, आपदा-प्रबन्धनं च इत्येतेषां आवश्यक-पक्षाणां विषये सूचना प्रदत्ता। प्रशिक्षणकार्यक्रमे राञ्चीतः, झारसुगुड़ातः, राउरकेलातः, चक्रधरपुरात्, डाङ्गवा-पोसीतः, आद्रातः, खड़गपुरात्, सन्तरागाछीतः टाटानगरात् च १९० लोकोपायलट्-चालकाः सम्मिलिताः।
सिविल-डिफेन्स्-निरीक्षकः राष्ट्रपति-सम्मानितः सदस्यश्च सन्तोष-कुमारः अवदत् यत् आपत्कालीन-स्थितौ घटनास्थले उपस्थितेन जनेन केवलं दर्शकरूपेण न स्थित्वा सहायकस्य भूमिका निर्वोढव्या। सः अवदत् यत् दुर्घटनायाः अनन्तरं प्रारम्भिकसमये प्रदत्तः प्राथमिकोपचारः आहतस्य प्राणरक्षणे महत्त्वपूर्णां भूमिकां निर्वहति। लोको-पायलट्-चालकाः बहुवारं दुर्घटनास्थलं प्रति सर्वप्रथमं प्राप्यमाणेषु जनानां मध्ये भवन्ति, अतः तेषां प्राथमिकचिकित्सायाः ज्ञानम् आवश्यकम् अस्ति।
प्रशिक्षणकाले लोकोपायलट्-चालकेभ्यः त्रायेज-प्रक्रियायाः, आहतेभ्यः प्राथमिक-ताक्रमेण उपचारप्रदानस्य, रुग्णवाहिकया सुरक्षितरूपेण चिकि-त्सालयं प्रति प्रापणस्य तथा स्वर्णिमसमये करणीयानाम् आवश्यको-पायानां च सूचना प्रदत्ता। त्रिकोणाकारपट्टिकया संकीर्णपट्टिकां विस्तृतपट्टिकां च निर्मातुं व्यावहारिका-भ्यासः अपि कारितः। रक्तस्रावस्य निरोधनस्य तथा शिरसि, चिबुके, हस्ते, जानुनि, वक्षसि च दग्धावस्थायां पट्टिकाबन्धनस्य विधिः अपि सम्यक् बोधितः।
सीपीआर-प्रक्रियायाः अग्निशमनयन्त्राणां सुरक्षितप्रयोगस्य च मॉक्-ड्रिल इति अपि कारितम्। प्रदर्शकौ अनिलकुमारसिंहः रमेशकुमारश्च व्यावहारिकप्रदर्शनं कृतवन्तौ। महिला-लोकोपायलट्-चालिकाभिः एलपीजी-वायोः कारणेन प्रज्वलितां वह्निं शामयितुं अग्निनिरोधक-यन्त्रस्य प्रयोगस्य अभ्यासः कृतः।
प्रशिक्षणे यात्री, मेल-एक्सप्रेस तथा पुनश्चर्यापाठ्यक्रमस्य लोकोपायलट्-चालकाः सम्मिलिताः। वरिष्ठ-लोकोपायलट्-चालकैः सिविल-डिफेन्स-दलस्य प्रशिक्षणस्य प्रशंसा कृता। सिविल-डिफेन्स-विभागस्य अनुसारम् अधुना पर्यन्तं २० सहस्राधिकेभ्यः लोकोपायलट्-चालकेभ्यः आपदासहायताकार्यसम्बद्धं बहुविषयकं प्रशिक्षणं प्रदत्तम् अस्ति।
Hindusthan Samachar / Divya Ranjan