Enter your Email Address to subscribe to our newsletters

भोपालम्, ०७ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः दुबईप्रवासस्य तृतीये दिने मङ्गलवासरे ०८ सेप्टेम्बरमासे प्रदेशे निवेशम् आकर्षयितुं महत्त्वपूर्णासु सभासु संवाद-सत्रेषु च भागं ग्रहीष्यति।
मुख्यमन्त्री यूएई-देशस्य प्रमुखनिवेशकैः उद्यमिभिः च सह प्रत्यक्षं संवादं करिष्यति। सः मध्यप्रदेशे निवेशस्य सम्भावनाः, उपलब्धाः औद्योगिकसुविधाः तथा निवेशा-नुकूलनीतेः च विषये चर्चां करिष्यति। अस्मिन् क्रमे विभिन्न-प्रमुखसंस्थानां प्रतिनिधिभिः सह व्यक्तिगतसभाः भविष्यन्ति।
सः शारजाह-वाणिज्य-उद्योगमण्डलस्य अध्यक्षेन अब्दुल्लासुल्तान-अल-ओवैसेन सह अपि सभां करिष्यति। अनन्तरं मण्डलस्य तथा आईबीपीसी-शारजाहस्य प्रतिनिधिभिः सह गोलमेजसभायां मध्यप्रदेशस्य निवेशसम्भावनाः प्रस्तूय ‘इन्वेस्ट-मध्यप्रदेश ग्लोबल-इन्वेस्टर्स-सम्मिट्-२०२७’ इत्यर्थं निवेशकान् आमन्त्रयिष्यति।
मुख्यमन्त्री बीआह-समूहस्य तथा इमार-समूहस्य मुख्यकार्यकारिणिभिः सह अपि मिलिष्यति। एतासु सभासु पर्यावरण-प्रबन्धनस्य, नगरविकासस्य, अचल-सम्पत्तिक्षेत्रस्य आधारभूतसंरचनायाश्च क्षेत्रेषु मध्यप्रदेशे निवेशस्य सम्भावनानां विषये विचारविमर्शः भविष्यति।
अवसरेऽस्मिन् मुख्यमन्त्री यूएई-देशस्य प्रमुखनिवेशकानां उद्योगप्रतिनिधीनां च सह ‘इन्वेस्ट इन मध्यप्रदेश’ इति संवादसत्रे भागं गृहीत्वा प्रदेशस्य निवेशसम्भावनाः प्रस्तोष्यति।
Hindusthan Samachar / Divya Ranjan