मध्यप्रदेशस्य मुख्यमन्त्रिणा मोहनयादवेन दुबईनगरे रस-अल-खैमायाः शासकेन शेख-सौद-बिन-सकर-अल-कासिमिना सह कृता साक्षात्कारवार्ता
मध्यप्रदेशस्य रस-अल-खैमायाः च मध्ये निवेशस्य औद्योगिकसहयोगस्य च सम्भावनानां विषये अभवत् चर्चा भोपालम्, ०६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः स्वस्य दुबईप्रवासस्य द्वितीये दिने सोमवासरे संयुक्तारब-अमीरातस्य सर्वोच्चपरि
दुबई में रस-अल-खैमा के शासक शेख सौद बिन सकर अल कासिमी से की मुलाकात करते हुए मप्र के मुख्यमंत्री


मध्यप्रदेशस्य रस-अल-खैमायाः च मध्ये निवेशस्य औद्योगिकसहयोगस्य च सम्भावनानां विषये अभवत् चर्चा

भोपालम्, ०६ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः स्वस्य दुबईप्रवासस्य द्वितीये दिने सोमवासरे संयुक्तारब-अमीरातस्य सर्वोच्चपरिषदः सदस्येन रस-अल-खैमायाः शासकेन शेख-सौद-बिन-सकर-अल-कासिमिना सह साक्षात्कारं कृतवान्।

अस्मिन् अवसरे मुख्यमन्त्रिणा डॉ. यादवेन मध्यप्रदेशे निवेशानुकूलस्य वातावरणस्य तथा प्रदेशे उपलब्धानां विविधानाम् औद्योगिकानां व्यावसायिकानां च अवसराणां विषये सूचना प्रदत्ता। सभायां मध्यप्रदेशस्य रस-अल-खैमायाः च मध्ये निवेशसंवर्धनस्य, औद्योगिकसहयोगस्य, निवेशकैः सह सम्पर्कस्य तथा विपणिप्रवेशस्य विस्तारस्य सम्भावनानां विषये विचारविमर्शः अभवत्।

विविधेषु क्षेत्रेषु निवेशस्य सहयोगस्य च सम्भावनानां विषये चर्चा

उभयोः प्रमुखयोः मध्ये सिरेमिक्-निर्माणसामग्री, औषधनिर्माणं तथा चिकित्सोपकरणानि, पर्यटनम् तथा आतिथ्यसेवा, खाद्यप्रसंस्करणम्, रसद-व्यवस्था तथा नवीकरणीय-ऊर्जा इत्यादिषु क्षेत्रेषु सहयोगस्य सम्भावनानां विषये चर्चा अभवत्। एतेषु क्षेत्रेषु निवेशस्य व्यापारिकक्रियाकलापानां च संवर्धनाय उभयपक्षयोः मध्ये संस्थागतसमन्वयं सुदृढं कर्तुं बलं दत्तम्।

निवेशकानां कृते मध्यप्रदेशे भूमेः चयनं, आवश्यकानाम् अनुमतगनां प्राप्तिः, आधारभूतसंरचनासम्बद्धानां सुविधानां उपलब्धता तथा राज्यस्तरीयनोडल्-सहयोगस्य माध्यमेन समयबद्धसुविधा-प्रदानस्य विषये अपि चर्चा अभवत्। रस-अल-खैमायाः निर्माणिभ्यः संस्थाभ्यश्च मध्यप्रदेशे निवेशाय आमन्त्रणं दातुं तथा प्राथमिकताक्षेत्रेषु सहयोगस्य संयुक्तरूपेण परिचयं कर्तुं प्रस्तावः प्रस्तुतः।

रस-अल-खैमा विनिर्माणस्य, सिरेमिक्-उद्योगस्य, निर्माणसामग्रीणां, औषध-निर्माणस्य, पर्यटनस्य तथा रसदव्यवस्थायाः क्षेत्रेषु प्रतिष्ठितं केन्द्रम् अस्ति। अपरतः मध्यप्रदेशः स्वस्य केन्द्रीयभौगोलिकस्थित्या, प्रति-स्पर्धात्मकव्ययेन, उपलब्धया औद्योगिक-भूम्या, स्थापितया आधारभूतसंरचनया तथा एकल-वातायन-सुविधया निवेश-केभ्यः भारतीयविपण्यं प्रति प्रभावीप्रवेशस्य सुविधा प्रददाति। सभायाम् उभयपक्षयोः पूरकक्षमतानाम् आधारेण सहयोगस्य अवसराणां विषये चर्चा अभवत्।

Hindusthan Samachar / Divya Ranjan