मध्यप्रदेशस्य मुख्यमन्त्री अद्य दुबईनगरे निवेश-वैश्विकसंवादकार्यक्रमेषु करिष्यति सहभागिताम्
— एआईएम्-काङ्ग्रेस २०२६ मध्ये मध्यप्रदेशस्य निवेशसम्भावनानां प्रस्तुतीकरणम्, वैश्विकनेतृभिः यूएई-देशस्य वरिष्ठनेतृत्वेन च भविष्यति संवादः भोपालम्, ०७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः स्वस्य चतुर्दिवसीयदुबईप्रवासस्य
सीएम मोहन यादव (फाइल फोटो)


— एआईएम्-काङ्ग्रेस २०२६ मध्ये मध्यप्रदेशस्य निवेशसम्भावनानां प्रस्तुतीकरणम्, वैश्विकनेतृभिः यूएई-देशस्य वरिष्ठनेतृत्वेन च भविष्यति संवादः

भोपालम्, ०७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः स्वस्य चतुर्दिवसीयदुबईप्रवासस्य द्वितीय-दिने (०७ सेप्टेम्बर) एआईएम्-काङ्ग्रेस २०२६ इत्यस्मिन् सम्मेलने सहभागितां करिष्यति तथा च विभिन्नदेशानां राजनैतिक-शासन-स्तरीयप्रतिनिधिभिः, निवेशकैः, संयुक्तारब-अमीरातस्य वरिष्ठनेतृत्वेन च संवादं करिष्यति। दिवसभरस्य कार्यक्रमेषु मध्यप्रदेशस्य निवेशक्षमता, औद्योगिक-सम्भावनाः, वैश्विकसहभागिता-अवसराश्च प्रमुखतया प्रस्तुताः भविष्यन्ति।

जनसम्पर्काधिकारिणी बबितामिश्रा उक्तवती यत् दुबईप्रवासस्य द्वितीयदिने मुख्यमन्त्री एआईएम्-काङ्ग्रेस २०२६ इत्यस्य उद्घाटनसमारोहे सहभागितां करिष्यति तथा मध्यप्रदेश-पवेलियनस्य उद्घाटनं करिष्यति। एआईएम्-काङ्ग्रेस् इत्यस्य मञ्चे मध्यप्रदेशस्य औद्योगिक-शक्तिः, निवेशावसराः, प्रदेशे उपलब्धं अनुकूलं व्यावसायिकवातावरणं च वैश्विकनिवेशकसमुदायस्य समक्षं प्रदर्शितं भविष्यति।

सा उक्तवती यत् मुख्यमन्त्री डॉ. यादवः संयुक्तारब-अमीरातस्य संघीयसर्वोच्च-परिषदः सदस्येन रास-अल-खैमाह-शासकेन शेख-सऊद-बिन-सक्र-अल-कासिमी इत्यनेन सह शिष्टाचारभेटम् अपि करिष्यति। एष: साक्षात्कार: मध्यप्रदेशस्य यूएई-देशस्य च मध्ये निवेशस्य आर्थिकसहयोगस्य च सम्भावनाः अग्रे वर्धयितुं दृष्ट्या महत्त्वपूर्ण: भविष्यति।

एआईएम्-काङ्ग्रेस इत्यस्य लीडर्स-सेशन इत्यत्र मुख्यमन्त्री डॉ. यादवः राष्ट्राध्यक्षानां शासनाध्यक्षानां च उपस्थितौ सम्बोधनं करिष्यति। वैश्विकनेतृत्वस्य अस्मिन् महत्त्वपूर्णे मञ्चे मुख्यमन्त्री मध्यप्रदेशस्य विकासयात्रां, निवेशसम्भावनाः, राज्ये उद्योगानां कृते निर्मीयमाणं अनुकूलं पारिस्थितिकीतन्त्रं च अन्ताराष्ट्रिय-समुदायस्य समक्षं स्थापयिष्यति। अस्मिन्नेव मञ्चे इन्वेस्ट मध्यप्रदेश-ग्लोबल इन्वेस्टर्स् समिट् २०२७ इत्यस्य कृते वैश्विकनिवेशकानां निमन्त्रणम् अपि प्रदास्यते।

मुख्यमन्त्री डॉ. यादवः तातारस्तान-गणराज्यस्य, रूसदेशस्य राज्यपालस्य सह सभां करिष्यति। एषा सभा मध्यप्रदेशस्य रूसदेशस्य च मध्ये औद्योगिक-निवेशसहयोगस्य सम्भावनासु संवादस्य महत्त्वपूर्णः अवसरः भविष्यति।

द्वितीयदिवसस्य प्रमुखेषु कार्यक्रमेषु ‘इन्वेस्ट् इन मध्यप्रदेश, इण्डिया’ इति निवेशसत्रम् अपि भविष्यति। अस्मिन् सत्रे मुख्यमन्त्री डॉ. यादवः वैश्विकनिवेशकानां व्यावसायिकप्रतिनिधीनां च समक्षं मध्यप्रदेशस्य निवेशक्षमतायाः, प्रमुख-क्षेत्राणां, औद्योगिकाधोसंरचनायाः, निवेशाय उपलब्धानाम् अवसराणां च विषये सूचनाः प्रदास्यति। मुख्यमन्त्रिणः सम्बोधनं प्रदेशं विश्वसनीयम् उदयमानं च निवेशगन्तव्यस्थानरूपेण प्रस्तुतं कर्तुं केन्द्रितं भविष्यति। ततः यूएई-देशस्य विदेशव्यापारराज्यमन्त्रिणः डॉ. थानी-बिन्-अहमद-अल-जेयूदी इत्यस्य उपस्थितौ आयोज्यमाने कार्यक्रमे मुख्यमन्त्री डॉ. यादवः सम्बोधनं करिष्यति। एषः संवादः भारत-मध्यप्रदेशयोः यूएई-देशस्य च मध्ये व्यापार-निवेशसम्बन्धान् अधिकं विस्तृतान् कर्तुं दृष्ट्या महत्त्वपूर्णः भविष्यति।

मुख्यमन्त्री डॉ. यादवस्य यूएई-देशस्य अर्थव्यवस्था-पर्यटनमन्त्रिणा अब्दुल्ला-बिन्-तौक-अल-मरी इत्यनेन सह बैठकम् अपि भविष्यति। अस्यां सभायां निवेशस्य, व्यापारस्य, पर्यटनस्य, आर्थिकसहयोगस्य च सम्बन्धिनः विषयाः चर्चयिष्यन्ते। ततः मुख्यमन्त्री डॉ. यादवः विदेशव्यापारराज्यमन्त्रिणा एआईएम्-काङ्ग्रेस-अध्यक्षेण च डॉ. थानी-बिन-अहमद-अल-जेयूदी इत्यनेन सह सभां करिष्यति।

दुबईप्रवासस्य द्वितीयदिने मुख्यमन्त्रिणः लूलू-ग्रुप्-इण्टरनेशनल्-संस्थायाः अध्यक्षेन प्रबन्धनिदेशकेन च यूसुफ-अली एम.ए. इत्यनेन सह सभा अपि महत्त्वपूर्णा भविष्यति। लूलू-ग्रुप्-संस्थया सह संवादस्य माध्यमेन मध्यप्रदेशे निवेशस्य व्यापारविस्तारस्य च सम्भावनासु चर्चा भविष्यति। द्वितीयदिवसस्य समापनावसरे दुबईस्थितेन महावाणिज्यदूतेन आयोजिते रात्रिभोजे मुख्यमन्त्री डॉ. यादवः सहभागितां करिष्यति।

Hindusthan Samachar / Divya Ranjan