Enter your Email Address to subscribe to our newsletters

भोपालम्, ०७ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वच्छवाय्वभियानस्य अन्तर्गतं आयोजिते ‘राष्ट्रियस्वच्छ-वायु-सर्वेक्षण-२०२६’ इत्यस्मिन् मध्यप्रदेशस्य त्रिणी नगराणि— इन्दौरम्, जबलपुरम्, भोपालं च— अद्य सोमवासरे नवदिल्ली इत्यत्र पुरस्कृताः भविष्यन्ति। नवदिल्लीस्थिते इन्दिरा-पर्यावरणभवने गङ्गासभागारे आयोजिते ‘स्वच्छ-वायदिवस’समारोहे केन्द्रीयपर्यावरण-वन-वातावरण-परिवर्तनमन्त्री भूपेन्द्रयादवः एतान् पुरस्कारान् प्रदास्यति।
मध्यप्रदेशस्य नगरीयविकासायुक्तः सङ्केतभोंडवे उक्तवान् यत् ‘राष्ट्रियस्वच्छ-वायुसर्वेक्षण-२०२६’ इत्यस्मिन् मध्यप्रदेशेन पर्यावरण-संरक्षणस्य सतत-विकासस्य च लक्ष्यं साकारं कुर्वता पुनरपि देशे स्वकीयां विशिष्टां परिचितिं स्थापिता। प्रधानमन्त्रिण: नरेन्द्रमोदिनः “स्वच्छवायुः, स्वस्थभारतं” इति दूरदर्शिदृष्ट्या मुख्यमन्त्रिणः डॉ. मोहनयादवस्य च कुशलस्य पर्यावरणहितैषिणः नेतृत्वस्य अन्तर्गतं प्रदेशेन प्रदूषणनियन्त्रणस्य, हरितावरण-विस्तारस्य, नागरिकसहभागितायाः च दिशि गौरवपूर्णः अध्यायः रचितः अस्ति।
तेन उक्तं यत् अस्यां राष्ट्रियस्पर्धायां प्रदेशस्य इन्दौर-जबलपुरनगरयोः नगर-स्तरीयस्य उत्कृष्टस्य वायुगुणवत्ता-प्रबन्धनस्य कृते तथा भोपालनगर-निगमस्य षष्टितमस्य वार्ड इत्यस्य वार्डस्तरीयनवाचाराणां कृते ‘स्वच्छवायु-प्रशंसापुरस्कारः’ प्रदास्यते।
स्वच्छतायाः शिखरे इन्दौरं जबलपुरं च
देशव्यापि स्वच्छतायाः सर्वोत्कृष्ट-प्रतिमानरूपेण प्रतिष्ठितम् इन्दौरनगरं स्वच्छवायुप्रबन्धनक्षेत्रेऽपि स्वकीयां तकनीकीदक्षतां दृढसङ्कल्पं च प्रदर्शितवत् अस्ति। इन्दौरनगरनिगमेन प्रभावीरूपेण सञ्चालिताः धूलि-नियन्त्रणोपायाः, वैज्ञानिकरीत्या सञ्चालितः मार्गसफाईप्रबन्धः, हरित-पट्टिकानां निरन्तरविस्तारः, निर्माण-विध्वंसजन्यावशिष्टस्य सुव्यवस्थितं प्रबन्धनं तथा सघनाः जनजागरणा-भियानानि च नगरस्य वायुमण्डलं निर्मलं कर्तुं निर्णायकां भूमिकां निर्वहन्ति।
एतस्यामेव शृङ्खलायां जबलपुरनगर-निगमेनापि स्वच्छवायुमानकानाम् अनुकूलाः प्रदूषणनियन्त्रणरणनीतयः, हरितोपक्रमाः, अनुकरणीयः सामुदायिक-सहभागिता च आधारीकृत्य राष्ट्रियस्तरे स्वकीयां प्रभावशीलतां सिद्धयन् एषा गौरवपूर्णा उपलब्धिः प्राप्ता अस्ति। उभे महानगरे प्रमाणितवन्तौ यत् जनसामान्यस्य सहभागितया सञ्चालितः प्रत्येकः प्रयासः पर्यावरणसंरक्षणे क्रान्तिकारीं परिवर्तनं जनयितुं शक्नोति।
भोपालस्य षष्टितमस्य वार्ड इत्यस्य ऐतिहासिकः नवाचारः
अपरतः राष्ट्रियस्वच्छवाय्वभियानस्य अन्तर्गतं प्रथमवारं प्रारब्धायां सूक्ष्मवार्ड-स्तरीयस्पर्धायां भोपालनगरनिगमस्य षष्टितमेन वार्ड इत्यनेन स्थानीयस्तरे वायुगुणवत्तासुधारस्य हरित-विकासस्य च या आदर्शदृष्टान्तः स्थापितः, सा देशस्य नगरीयनिकायानां कृते अनुकरणीया अस्ति। षष्टितमेन वार्ड इत्यनेन वार्डस्तरे सघनस्वच्छताभियानैः, स्थानीयहरितावरणसंवर्धनेन, प्रदूषण-मुक्त्युपक्रमैः, नागरिकाणां च अनुशासित-सहभागितया अस्मिन् राष्ट्रियपुरस्कारे स्वकीयम् नाम अङ्कितम् अस्ति।
नगरीयविकासायुक्तः सङ्केतभोंडवे उक्तवान् यत् एषा अभूतपूर्वा उपलब्धिः प्रधानमन्त्रीमोदिनः ‘विकसित-स्वच्छ-भारत’ इति सङ्कल्पस्य मुख्यमन्त्रिणः डॉ. यादवस्य मार्गदर्शने क्रियान्वितानां सततपर्यावरणनीतीनां च फलम् अस्ति। मध्यप्रदेशस्य नगरनिकायाः एतादृशेनैव निष्ठया नागरिकसहभागितया च स्वच्छवायोः, हरितविकासस्य, गुणवत्ता-पूर्णजीवनस्य च राष्ट्रियप्रतिमानरूपेण निरन्तरं अग्रणीं भूमिकां निर्वहिष्यन्ति।
Hindusthan Samachar / Divya Ranjan