भस्म-आरत्यां राजा स्वरूपेण सज्जो बाबा महाकालः, सायं निष्कासितवन्तो राजसी-आरोहणं , केंद्रीय मंत्री सिंधिया पालक्याः पूजनं करिष्यति
उज्जैनम्, 07 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवान् महाकालेश्वरस्य मन्दिरे सोमवासरे भस्मारत्याः समये भाङ्गचन्दनेनाभरणैश्च भगवान् महाकालस्य राजस्वरूपेण शृङ्गारः कृतः। अपरत्र मन्दिरात् सोमवासरे सायं
बाबा महाकाल का भस्म आरती श्रृंगार


उज्जैनम्, 07 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवान् महाकालेश्वरस्य मन्दिरे सोमवासरे भस्मारत्याः समये भाङ्गचन्दनेनाभरणैश्च भगवान् महाकालस्य राजस्वरूपेण शृङ्गारः कृतः। अपरत्र मन्दिरात् सोमवासरे सायं चतुर्वादने श्रावणभाद्रमासयोः राजसीसवारी निर्गमिष्यति। अस्यां सवार्यां अवन्तिकानाथः नगरस्य भ्रमणं कृत्वा स्वप्रजायाः कुशलक्षेमं ज्ञास्यति। राजसीसवार्यां भक्ताः एकस्मिन्नेव काले बाबामहाकालस्य षड्रूपाणां दर्शनं प्राप्स्यन्ति।

विश्वप्रसिद्धस्य श्रीमहाकालेश्वरमन्दिरस्य पुरोहितः पण्डितः महेशशर्मा अवदत् यत् भाद्रपदकृष्णपक्षस्य एकादश्यां तिथौ सोमवासरे प्रातः चतुर्वादने भस्मारत्यर्थं मन्दिरस्य कपाटानि उद्घाटितानि। कपाटोद्घाटनेन सह पण्डितैः पुरोहितैश्च गर्भगृहे प्रतिष्ठितानां सर्वेषां देवानां प्रतिमानां पूजनं कृत्वा भगवान् महाकालस्य जलाभिषेकः कृतः। दुग्धदधिघृतशर्कराफलरसैः निर्मितं पञ्चामृतं समर्प्य अभिषेकः सम्पन्नः।

तदनन्तरं प्रथमघण्टालवादनं कृत्वा हरि ओम इति मन्त्रोच्चारणपूर्वकं जलं समर्पितम्। कर्पूरारत्याः अनन्तरं बाबामहाकालाय रजतमुकुटं मुण्डमालां च धारिते। अद्यतनस्य शृङ्गारस्य विशेषता आसीत् यत् बाबामहाकालस्य भाङ्गेन शृङ्गारं कृत्वा त्रिपुण्ड्रेण रुद्राक्षमालया च आकर्षकं स्वरूपं प्रदर्शितम्। रामनामाङ्कितानि बिल्वपत्राणि अपि समर्पितानि।

शृङ्गारानन्तरं बाबामहाकालस्य ज्योतिर्लिङ्गे महानिर्वाणी-अखाडायाः पक्षतः भस्म समर्पितम्। भस्मसमर्पणानन्तरं भगवान् महाकालाय शेषनागस्य रजतमुकुटं, रजतमुण्डमालां, रुद्राक्षमालां सुगन्धितपुष्पमालाश्च धारिताः। मल्लिकापुष्पैः गुलाबपुष्पैश्च शृङ्गारः कृतः। तदनन्तरं फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। भस्मारत्यां बहवः श्रद्धालवः सम्मिलिताः भूत्वा बाबामहाकालस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः। जनश्रुत्यानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपेण भक्तानां दर्शनं ददाति।

अपरत्र सायंकाले उज्जयिनीनगरे भाद्रमासस्य द्वितीये सोमवासरे भगवान् महाकालस्य राजसीसवारी निर्गमिष्यति। अस्याः सवार्याः मार्गः प्रायः सार्धपञ्चकिलोमीटरपरिमितः भविष्यति। सवार्यां सम्मिलितुं देशस्य विभिन्नेभ्यः भागेभ्यः श्रद्धालवः आगमिष्यन्ति। एतत्पूर्वं श्रावणमासस्य चतस्रः सवार्यः भाद्रमासस्य एका सवारी च निर्गता अस्ति। एषा षष्ठी अन्तिमा च सवारी अस्ति। अस्यां सवार्यां केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया पालक्याः पूजनं करिष्यति।

सवार्यां बाबा महाकालः षड्रूपैः भक्तानां दर्शनं दास्यति। अवन्तिकानाथः रजतपालक्यां चन्द्रमौलेश्वररूपेण, गजराजस्य पृष्ठे मनमहेशरूपेण, गरुडस्य पृष्ठे शिवताण्डवरूपेण, नन्दिवाहने उमामहेशरूपेण, डोलरथे होल्कररूपेण तथा सप्तधानरूपेण आरूढः सन् नगरस्य भ्रमणं करिष्यति तथा स्वप्रजायाः कुशलक्षेमं ज्ञास्यति। राजसीसवारी सिंहस्थपर्वणः कृते निर्मीयमाणेन नूतनेन भव्येन मार्गेण निर्गमिष्यति। सवार्यां प्रथमवारं द्वौ पुलिसबैंडदलौ सम्मिलितौ भविष्यतः। ईशाफाउण्डेशनस्य कैलाशवाद्यम् इति बैंडदलेन विशेषप्रस्तुतिः प्रदास्यते। आकाशात् ड्रोनयन्त्रैः पुष्पवृष्टिः करिष्यते।

सवारीनिर्गमनात् पूर्वं महाकालेश्वरमन्दिरस्य सभामण्डपे भगवान् श्रीचन्द्रमौलेश्वरस्य पूजाऽर्चना भविष्यति। पूजनानन्तरं रजतपालक्यां विराजमानः भगवान् महाकालः प्रजायाः कुशलक्षेमं ज्ञातुं नगरभ्रमणाय निर्गमिष्यति। मन्दिरस्य मुख्यद्वारे पालक्यां विराजमानाय भगवान् श्रीचन्द्रमौलेश्वराय सशस्त्रसुरक्षाबलैः सलामी प्रदास्यते।

श्रीचन्द्रमौलेश्वरस्य पालकी निर्धारितसमये सायं चतुर्वादने प्रारभ्य महाकालघाटी, गुदरीचतुष्पथः, पानदरीबा, कहारवाडी तथा रामानुजकोटमार्गेण रामघाटं प्राप्स्यति। रामघाटे पालक्यां विराजमानस्य भगवान् चन्द्रमौलेश्वरस्य तथा गजराजमारूढस्य मनमहेशस्य शिप्राजलेन पूजनमर्चनं च करिष्यते। आरत्याः अनन्तरं सवारी गणगौरद्वारं, कार्तिकचतुष्पथं, ढाबामार्गं, कमरीमार्गं, टङ्कीचतुष्पथं, तेलीवाडा, कण्ठालं, सतीद्वारं, खडेहनुमानं तथा गोपालमन्दिरं प्राप्स्यति। अत्र सिन्धियाराज्यस्य पक्षतः पूजनानन्तरं सवारी पटनीबाजारं, गुदरीं तथा महाकालघाटीं मार्गेण पुनः महाकालेश्वरमन्दिरं प्राप्स्यति।

भगवान् श्रीमहाकालेश्वरस्य राजसीसवारीं दृष्ट्वा पुलिसप्रशासनेन सुरक्षायाः कठोरव्यवस्थाः कृताः सन्ति। सवारीमार्गे तदनुसंलग्नक्षेत्रेषु च द्विसहस्राधिकाः पुलिस-अधिकारी-कर्मचारिणः नियुक्ताः भविष्यन्ति। जनसमूहे चौर्यं संदिग्धगतिविधीश्च नियन्त्रितुं शताधिकाः पुलिसकर्मचारिणः साधारणवेषे नियुक्ताः भविष्यन्ति। शताधिकेषु उच्चभवनेषु अपि पुलिसकर्मचारिणः सवारीमार्गस्य निरीक्षणं करिष्यन्ति। आकाशे दश ड्रोनयन्त्रैः भूमौ स्थापितैः सीसीटीवी-यन्त्रैश्च निरन्तरं निगराणी करिष्यते।

पुलिस-अधीक्षकः प्रदीपशर्मा अवदत् यत् सुरक्षायै जनसमूहव्यवस्थापनाय च इन्दौरदेवासशाजापुररतलाममन्दसौरनीमचदतियाशिवपुरीनगराभ्यः अतिरिक्तं पुलिसबलम् आहूतम् अस्ति। कर्तव्ये नियुक्तेभ्यः अधिकारेभ्यः कर्मचारिभ्यश्च सवारीमार्गस्य, जनसमूहव्यवस्थापनस्य सुरक्षाव्यवस्थायाश्च विषये सूचना प्रदीयते। होटलानि, विश्रामगृहाणि, धर्मशालाश्च निरन्तरं परीक्ष्यन्ते।

राजसीसवार्यां बहुसंख्याकानां श्रद्धालूनाम् आगमनस्य सम्भावना अस्ति। एतां दृष्ट्वा चलदूरवाणी, धनपुटिका, मङ्गलसूत्रं हारादीनां चौर्यं निवारयितुं पुलिसप्रशासनेन विशेषदलस्य गठनं कृतम् अस्ति। साधारणवेषे नियुक्ताः शताधिकाः जवानाः जनसमूहमध्ये संदिग्धजनानां गतिविधीनां निरीक्षणं करिष्यन्ति। संदिग्धगतिविधिः दृश्यते चेत् तत्क्षणं कार्यवाही करिष्यते। प्रायः शतं महिलापुलिसकर्मचारिणः अपि कर्तव्ये नियुक्ताः सन्ति।

आकाशवाण्यां महाकालस्य राजसीसवार्याः अष्टघण्टापर्यन्तं सततं सजीवप्रसारणम्

भगवान् महाकालेश्वरस्य भव्यराजसीसवारी अस्मिन् वर्षे रेडियोप्रसारणमाध्यमेन देशविदेशेषु स्थितेभ्यः श्रद्धालुभ्यः विशेषरूपेण प्राप्स्यते। आकाशवाणी-उज्जयिनीकेन्द्रेण अपराह्णे द्विवादनतः रात्रौ दशवादनपर्यन्तं सततं अष्टघण्टाः बाबामहाकालस्य राजसीसवार्याः विशेषं सजीवप्रसारणं करिष्यते। एतत्प्रसारणं मध्यप्रदेशस्य सर्वेभ्यः आकाशवाणीकेन्द्रेभ्यः एकस्मिन्नेव काले प्रसारितं भविष्यति।

आकाशवाणी-उज्जयिनीकेन्द्रस्य कार्यक्रमाधिकारी ब्रह्मप्रकाशचतुर्वेदी अवदत् यत् रेडियोप्रसारणस्य इतिहासे क्रीडेतरकार्यक्रमाणां क्षेत्रे एतावती दीर्घकालपर्यन्तं सततं सजीवप्रसारणस्य एषा अद्वितीया पहल अस्ति। प्रसारणकाले बाबा महाकालस्य राजसीसवार्याः सम्पूर्णमार्गस्य, विभिन्नविश्रामस्थलानां, धार्मिकानुष्ठानानां, परम्पराणां श्रद्धालूनां च आस्थायाः प्रत्यक्षवर्णनं प्रस्तुतं करिष्यते।

आकाशवाणी-उज्जयिनीकेन्द्रस्य कार्यक्रमप्रमुखा अनामिका चक्रवर्ती अवदत् यत् अस्य विशेषप्रसारणस्य नाम वर्ल्डबुकऑफरिकॉर्ड्स तथा लिम्काबुकऑफरिकॉर्ड्स इत्येतयोः अभिलेखेषु समावेशाय नामाङ्कितम् अस्ति। अनुभवी उद्घोषकानां वार्ताहराणां च दलं सवार्याः प्रत्येकस्य महत्त्वपूर्णकार्यक्रमस्य सजीवं भावपूर्णं च वर्णनं करिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani