दुबईतः विश्वं प्रति मध्यप्रदेशस्य सन्देशः— “निवेशं कुरुत, वयं सहभागितां निर्वक्ष्यामः।”
भोपालम्, 07 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः सम्प्रति संयुक्त अरब अमीरात् देशस्य दुबई नगरे त्रिदिवसीय प्रवासे वर्तते। स्वप्रवासस्य द्वितीयदिने सोमवासरे सः निवेश सत्रे राज्यस्य निवेश क्षमतायाः प्रस्तुतिं कृतवान् तथा च
मप्र के मुख्यमंत्री दुबई में निवेशकों से मुलाकात करते हुए


भोपालम्, 07 सितंबरमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः सम्प्रति संयुक्त अरब अमीरात् देशस्य दुबई नगरे त्रिदिवसीय प्रवासे वर्तते। स्वप्रवासस्य द्वितीयदिने सोमवासरे सः निवेश सत्रे राज्यस्य निवेश क्षमतायाः प्रस्तुतिं कृतवान् तथा च संयुक्त अरब अमीरात् देशस्य रूस देशस्य च वरिष्ठ नेतृभिः प्रमुख उद्योग समूहैः सह अनेकाः महत्त्वपूर्णाः व्यक्तिगत स्तरीयाः शासन स्तरीयाश्च गोष्ठीः कृतवान्।

माध्यम संवादेन दिवसस्य प्रारम्भः

दिवसस्य प्रारम्भः ताज दुबई, बिजनेस बे इत्यत्र आयोजितेन माध्यम संवादेन अभवत्। तत्र मुख्यमन्त्रिणा निवेशकानां, उद्योग जगतः, वैश्विक सहभागिनां च मध्ये मध्यप्रदेशस्य वर्धमान आर्थिक शक्तेः, औद्योगिक प्रगतेः, आगामी वैश्विक निवेशक सम्मेलन २०२७ इत्यस्य च सज्जतायाः विषये चर्चा कृता।

मध्यप्रदेश पवेलियनस्य उद्घाटनम्

मुख्यमन्त्री डॉ. यादवः एआईएम कांग्रेस इत्यस्य प्रदर्शनी क्षेत्रे स्थापितस्य मध्यप्रदेश पवेलियनस्य उद्घाटनं कृतवान्। पवेलियनं राज्यस्य प्रमुख निवेश व्यापार प्रदर्शन मञ्चरूपेण विकसितम् अस्ति। अत्र वैश्विक निवेशकानां कृते मध्यप्रदेशस्य केन्द्रीय भौगोलिक अवस्थितेः, विशाल भूमि संग्रहस्य, विकसित औद्योगिक पारिस्थितिक तन्त्रस्य, विश्वस्तरीय अवसंरचनायाः, निवेशकानुकूल नीतीनां तथा विनिर्माण, वस्त्र, रसद, नवीकरणीय ऊर्जा, औषधि, इलेक्ट्रॉनिक्स तथा उदयमान उद्योगेषु उपलब्धानां अवसराणां विषये जानकारी प्रदत्ता।

तदतिरिक्तं चन्देरी, माहेश्वरी, जरी जरदोजी, बेल मेटल तथा ग्वालियर कालीन इत्यादीनां जीआई चिह्नितानाम् ओडीओपी उत्पादानां च प्रदर्शनम् अपि कृतम्।

रास अल खैमाहस्य शासकेन सह मेलनम्

एआईएम कांग्रेसस्य उद्घाटन समारोह आरम्भात् पूर्वं मुख्यमन्त्री संयुक्त अरब अमीरात् देशस्य सर्वोच्च परिषदः सदस्येन रास अल खैमाहस्य शासकेन हिज हाइनेस शेख सऊद बिन् सक्र अल कासिमी इत्यनेन सह शिष्टाचार मेलनं कृतवान्।

गोष्ठ्यां सिरेमिक् तथा निर्माण सामग्री, औषधि, चिकित्सकीय उपकरण, पर्यटन तथा आतिथ्य, खाद्य प्रसंस्करण, रसद तथा नवीकरणीय ऊर्जा क्षेत्रेषु सहयोगस्य सम्भावनानां विषये चर्चा कृता। मुख्यमन्त्रिणा तं वैश्विक निवेशक सम्मेलन २०२७ इत्यस्मिन् भागं ग्रहीतुं निमन्त्रणम् अपि प्रदत्तम्। उभय पक्षेण निवेश प्रोत्साहनाय बाजार प्रवेशाय च संस्थागत सहयोगस्य आवश्यकतायां बलं दत्तम्।

तातारस्तान गणराज्यस्य प्रमुखेन सह उच्चस्तरीया गोष्ठी

मध्याह्ने मुख्यमन्त्री रूस देशस्य तातारस्तान गणराज्यस्य प्रमुखेन एच.ई. रुस्तम मिन्निखानोव इत्यनेन सह शासन स्तरीयां गोष्ठीं कृतवान्। गोष्ठ्याः उद्देश्यं तातारस्तान मध्यप्रदेशयोः मध्ये व्यापार निवेश सहयोगं सुदृढं कर्तुं तथा क्षेत्र विशिष्ट साझेदारीः चिनोतुम् आसीत्।

वार्तायां उन्नत विनिर्माण, पेट्रोकेमिकल्स्, अभियान्त्रिकी, रसद, खाद्य प्रसंस्करण, कृषि, प्रौद्योगिकी तथा नवाचार आधारित उद्योगेषु सहयोगस्य सम्भावनानां विषये विस्तृततया चर्चा कृता।

निवेश सत्रम्

अपराह्णे आयोजितं निवेश सत्रम् एआईएम कांग्रेसस्य प्रमुखं आकर्षणम् आसीत्। सत्रे दुबई स्थितेन महावाणिज्यदूतेन डॉ. ई. विष्णु वर्धन रेड्डी इत्यनेन स्वागत भाषणं प्रदत्तम्। मध्यप्रदेशस्य अपर मुख्यसचिवेन नीरज मण्डलोई इत्यनेन राज्यस्य निवेश सम्भावनानां विषये विस्तृतं प्रस्तुतिकरणं कृतम्। सत्रे पर्यटन क्षेत्रस्य निवेश सम्भावनानां विषये विशेष चलच्चित्रम् अपि प्रदर्शितम्।

संयुक्त अरब अमीरात् देशस्य विदेश व्यापार राज्यमन्त्री डॉ. थानी बिन् अहमद अल जैयूदी मुख्य अतिथिरूपेण उपस्थितः आसीत्।

निवेश सत्रे मुख्यमन्त्रिणः विशेष सम्बोधनम्

निवेश सत्रं सम्बोधयन् मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशः केवलम् अवसरानां प्रदेशः न, अपितु दीर्घकालिक सुस्थिर विश्वसनीय निवेश साझेदारीनां केन्द्रम् अपि अस्ति। तेन उक्तं यत् नीति, नीयतिः नेतृत्वं च मध्यप्रदेशं निवेशकानां प्रियतमं गन्तव्यस्थानं कृतवन्तः।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशः भारतस्य भौगोलिकं केन्द्रम् अस्ति तथा अत्रतः देशस्य कस्यापि भागस्य प्रति चतुर्विंशतितः षट्त्रिंशत् घण्टाभ्यन्तरे परिवहनं सम्भवति। दिल्ली मुम्बई औद्योगिक मार्गिका, विकसितं मार्ग जालं रेल जालं च आधुनिक रसद सुविधाभिश्च मध्यप्रदेशं विनिर्माण वितरणयोः स्वाभाविकं केन्द्रं कुर्वन्ति।

तेन उक्तं यत् कृषि उत्पादन, खाद्य प्रसंस्करण, वस्त्र, वाहन उद्योग, अभियान्त्रिकी, औषधि, दूरसञ्चार उपकरण विनिर्माण, प्रकाशीय तन्तु, इलेक्ट्रॉनिक्स, स्वच्छ ऊर्जा तथा डिजिटल विनिर्माण इत्यादिषु क्षेत्रेषु मध्यप्रदेशः तीव्रगत्या सुदृढम् औद्योगिक पारिस्थितिक तन्त्रम् विकसितं करोति।

मुख्यमन्त्रिणा निवेशकाः भोपाल नगरे आगामी वर्षे आयोज्यमाने वैश्विक निवेशक सम्मेलन २०२७ इत्यस्मिन् भागं ग्रहीतुं आमन्त्रिताः।

संयुक्त अरब अमीरात् देशस्य अर्थव्यवस्था पर्यटन मन्त्रिणा सह गोष्ठी

निवेश सत्रस्य अनन्तरं मुख्यमन्त्री डॉ. मोहन यादवः संयुक्त अरब अमीरात् देशस्य मन्त्रिमण्डल सदस्येन अर्थव्यवस्था पर्यटन मन्त्रिणा एच.ई. अब्दुल्ला बिन् तौक अल मर्री इत्यनेन सह मेलनं कृतवान्।

गोष्ठ्यां नागरिक विमानन, विशेष आर्थिक क्षेत्र, भविष्याभिमुख संस्थान, औद्योगिक पार्क तथा निवेश सहयोग इत्यादीनां विषयाणां विषये चर्चा कृता। मुख्यमन्त्रिणा मध्यप्रदेशे विशेष औद्योगिक क्षेत्राणां विकासस्य योजनानां विषये जानकारी प्रदत्ता। दुबई फ्यूचर फाउण्डेशन सदृशानां संस्थानां अवधारणायाः आधारेण सहयोगस्य सम्भावनानाम् अपि विचार विमर्शः कृतः।

डॉ. थानी बिन् अहमद अल जैयूदी इत्यनेन सह व्यक्तिगत स्तरीया गोष्ठी

सायंकाले मुख्यमन्त्री संयुक्त अरब अमीरात् देशस्य विदेश व्यापार राज्यमन्त्रिणा तथा एआईएम कांग्रेसस्य अध्यक्षेन डॉ. थानी बिन् अहमद अल जैयूदी इत्यनेन सह पृथक् विशेषां व्यक्तिगत स्तरीयां गोष्ठीं कृतवान्।

गोष्ठ्यां मध्यभारतस्य निवेशकानां कृते संयुक्त अरब अमीरात् देशस्य निवेशकानां प्रियतमं निवेश गन्तव्यस्थानं मध्यप्रदेशं कर्तुं रणनीतेः विषये चर्चा कृता।

लूलू समूहस्य अध्यक्षेन यूसुफ अली इत्यनेन सह महत्त्वपूर्णा गोष्ठी

दिवसस्य अन्तिमेषु प्रमुख कार्यक्रमेषु मुख्यमन्त्री डॉ. यादवः लूलू ग्रुप् इण्टरनेशनल् इत्यस्य अध्यक्षेन प्रबन्ध निदेशकेन च यूसुफ अली एम.ए. इत्यनेन सह विस्तृतां व्यक्तिगत स्तरीयां गोष्ठीं कृतवान्।

लूलू समूहः मध्यपूर्वस्य प्रमुखः खुदरा व्यापार, हाइपरमार्केट्, खाद्य वितरण, कृषि निर्यात, रसद तथा भण्डारण समूहः अस्ति। तस्य वैश्विक उपस्थितिः द्विशताधिकेषु भण्डारेषु तथा पञ्चषष्टि सहस्राधिकेषु कर्मचारिषु विस्तृता अस्ति।

गोष्ठ्यां मध्यप्रदेशात् प्याज, गोधूम, शाक सब्जी इत्यादीनां कृषि उत्पादानां प्रत्यक्ष क्रयणं प्रवर्धयितुं, खाद्य प्रसंस्करण, आपूर्ति शृङ्खला, भण्डारण, कृषि निर्यात तथा खुदरा वितरण जालस्य विस्तारस्य अवसरानां विषये चर्चा कृता।

मुख्यमन्त्रिणा मध्यप्रदेशस्य कृषि क्षमता, खाद्य प्रसंस्करण अवसंरचना तथा निर्याताभिमुख नीतीनां विषये जानकारी प्रदाय लूलू समूहं राज्ये निवेशं वर्धयितुं आमन्त्रितम्।

उद्योग निवेश समुदायेन सह सम्पर्कः

दिवसस्य समापनं दुबई स्थितेन भारतीय महावाणिज्यदूतेन आयोजितेन विशेष रात्रिभोजेन अभवत्। अस्मिन् कार्यक्रमे इण्डियन बिजनेस एण्ड प्रोफेशनल काउन्सिल् इत्यस्य अध्यक्षः सिद्धार्थ बालचन्द्रन्, यूएई इण्डिया बिजनेस काउन्सिल् इत्यस्य अध्यक्षः नीलेश वेदः, ट्रान्सवर्ल्ड ग्रुप् इत्यस्य अध्यक्षः रमेशः एस. रामकृष्णन्, डीपी वर्ल्ड् इत्यस्य समूह मुख्य वित्तीय अधिकारी युवराज नारायणः, लूलू समूहस्य समूह निदेशकः सलीमः एम.ए. इत्यादयः खाद्य, रसद, विमानन, वस्त्र, औद्योगिक विनिर्माण तथा व्यापार संगठनानां वरिष्ठ प्रतिनिधयः उपस्थिताः आसन्।

मुख्यमन्त्री डॉ. यादवः विभिन्नैः उद्योग प्रतिनिधिभिः सह अनौपचारिक संवादं कृत्वा तेभ्यः मध्यप्रदेशस्य विकास यात्रायां सहभागिनः भवितुं निमन्त्रणं प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani