Enter your Email Address to subscribe to our newsletters

लखनऊ, 07 अक्टूबरमासः (हि.स.)। बहुजनसमाजपार्टी इति बसपा इत्यस्याः राष्ट्रियाध्यक्षा मायावती दिल्ली-मध्यप्रदेशयोः सम्पन्नासु घटनासु जनानां मृत्योः विषये स्वकीयां शोकसंवेदनां प्रकटितवती अस्ति। ताभिः एतासां घटनानां विषये शासन-प्रशासनयोः उपरि गम्भीराः आरोपाः अपि कृताः।
मायावत्याः स्वकीयायां सामाजिकमाध्यमप्रेषणे सोमवासरे उक्तं यत् दक्षिणदिल्लीस्थितस्य पञ्चतलयुक्तस्य पीजी छात्रावासस्य पतनेन पञ्च जनानां मृत्युः अभवत्।
अपरतः मध्यप्रदेशस्य सागरजनपदेऽपि विषाक्तमद्यस्य पानात् अष्टादशजनानां मृत्युः अभवत् तथा च प्रायः एकशतं नवतिजना: रुग्णाः चिकित्सालये चिकित्सां प्राप्नुवन्ति। उत्तरप्रदेशे बिहारादिषु राज्येषु बाढ्या कारणेन जनधनस्य विनाशस्य वार्ताः अत्यन्तं दुःखदाः चिन्तनीयाश्च सन्ति।
ताभिः उक्तं यत् एताभिः घटनाभिः सिद्धं भवति यत् शासन-प्रशासनयोः स्वकीयाः दायित्वाः सम्यक् न निर्वहन्ति। अतः जनहितस्य जनकल्याणस्य च विषये सर्वकाराणां सतर्क-सुदृढं च भवितुं नितरां आवश्यकता अस्ति।
एवं प्रकारेण अधिकारिणां घातकत्वेन वर्धमाना असावधानी, उदासीनता, भ्रष्टाचारः इत्यादीनाम् अपि सर्वकारैः कठोरतया नियन्त्रणं कर्तुं आवश्यकता अस्ति।------------
Hindusthan Samachar / Dheeraj Maithani