Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 सितंबरमासः (हि.स.)।
अस्य वर्षस्य सितम्बर-मासस्य त्रयोविंशतितमे दिवसे महाराष्ट्रस्य नागपुर-नगरे आयुर्वेद-दिवसस्य मुख्यसमारोहः आयोजयिष्यते। अस्मिन् वर्षे “स्वस्थ-भविष्याय आयुर्वेदः” इति विषयवस्तु निर्धारिता अस्ति, यस्य उद्देश्यम् आयुर्वेदस्य समृद्धपरम्परां भविष्यस्य स्वास्थ्य-आवश्यकताभिः सह सम्बद्धुं वर्तते।
केन्द्रीय-आयुष्-राज्यमन्त्री (स्वतन्त्र-प्रभारः) तथा स्वास्थ्य-परिवार-कल्याण-राज्यमन्त्री प्रतापराव-जाधवः सोमवासरे राष्ट्रिय-माध्यम-केन्द्रे एकादशस्य आयुर्वेद-दिवसस्य निमित्तं आयोजितायां प्रारम्भिक-वार्ताहर-गोष्ठ्याम् उक्तवान् यत् आयुर्वेद-दिवसस्य निमित्तं राष्ट्रव्यापी-जनजागरूकता-अभियानस्य औपचारिकः शुभारम्भः कृतः तथा च युवकेषु आयुर्वेदस्य प्रचार-प्रसाराय विशेषेण बलं प्रदत्तम्।
प्रतापराव-जाधवः उक्तवान् यत् सम्प्रति सम्पूर्णं विश्वं रोगाणां निवारणस्य, स्वस्थ-जीवनशैल्याः, पोषणस्य, स्वास्थ्यसमृद्धेः तथा समग्र-स्वास्थ्यस्य दिशि अग्रसरति। एतेषु क्षेत्रेषु भारतस्य समीपे आयुर्वेदस्य रूपेण समृद्धं ज्ञानम् अनुभवश्च विद्यते। सः उक्तवान् यत् आयुर्वेद-दिवसः केवलं भारतस्य परम्परायाः उत्सवः न, अपितु भविष्यस्य स्वास्थ्य-चुनौतीनां समाधानं प्रस्तोतुम् अवसरः अपि अस्ति।
सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदिना प्रतिपादितस्य ‘विकसित-भारत’ इति दृष्टिकोणस्य अनुरूपं स्वास्थ्य-व्यवस्था केवलं रोगाणां चिकित्सायै सीमिता न भवेत्, अपितु स्वस्थ-दिनचर्यायाः, सन्तुलित-आहारस्य, मानसिक-सन्तुलनस्य तथा प्रकृत्या सह सामञ्जस्यस्य च प्रवर्धनम् अपि करणीयम्।
मन्त्री अवदत् यत् अस्य वर्षस्य अभियानं त्रिषु प्रमुखेषु विषयेषु केन्द्रितं भविष्यति
१. उत्तम-स्वास्थ्य-परिणामानां प्राप्तये समेकित-स्वास्थ्य-सेवा।
२. आयुर्वेदे अनुसन्धानम्, प्रमाणाधारितं ज्ञानम्, नवाचारः तथा सामुदायिक-कल्याणम्।
३. सतत-जीवनशैल्यै आयुर्वेदः।
सः माध्यम-प्रतिनिधिभ्यः आह्वानं कृतवान् यत् आयुर्वेदेन सम्बद्धा सम्यक् वैज्ञानिकाः प्रमाणाधारिता च सूचना सामान्यजनानां समीपं प्रापयितुं अत्यन्तम् आवश्यकम् अस्ति। इदं अभियानं गृहेषु, विद्यालयेषु, महाविद्यालयेषु, युवकेषु, विशेषतः नवयुव-पीढ्यां तथा ग्रामीण-नागरीय-क्षेत्रेषु च व्यापकतया प्राप्नुयात्। तस्य लक्ष्यं वर्तते यत् एकादशः आयुर्वेद-दिवसः केवलं शासकीय-कार्यक्रमः न भूत्वा जनान्दोलनं राष्ट्रिय-स्वास्थ्य-सञ्चार-अभियानं च भवेत्।
जयपुरस्थितस्य राष्ट्रिय-आयुर्वेद-संस्थानस्य कुलपतिः प्रो. सञ्जीव-शर्मा अवदत् यत् आयुर्वेद-दिवसस्य अवसरे राष्ट्रिय-धन्वन्तरि-आयुर्वेद-पुरस्कारः २०२६, राष्ट्रिय-आयुर्वेद-संस्थानस्य जयपुरस्य नूतनाः उपक्रमाः, औषधीय-पादपानां संरक्षण-सम्बद्धाः दस्तावेजाः, त्वक्-रोगाणां कृते मानक-चिकित्सा-निर्देशाः, आयुष्-सेवा-क्षेत्रस्य प्रतिवेदनम्, आयुष्-दृष्टिपत्रम् २०३०, विविधैः संस्थाभिः सह सहमतिपत्राणि तथा अन्ये महत्त्वपूर्णाः कार्यक्रमाः आयोजिताः भविष्यन्ति।
वार्ताहर-सम्मेलने आयुष्-मन्त्रालयस्य संयुक्त-सचिवा अलारमेलमंगई डी., उपमहानिदेशकः सत्यजीत-पॉलः, पीआईबी-संस्थायाः प्रधान-महानिदेशकः धीरेन्द्र-ओझा, आयुष्-मन्त्रालयस्य वरिष्ठाः अधिकारीगणाः तथा बहुसंख्याकाः माध्यम-प्रतिनिधयः उपस्थिताः आसन्।
आयुष्-मन्त्रालयेन माध्यम-प्रतिनिधिभ्यः, आयुर्वेद-चिकित्सकेभ्यः, अनुसन्धानकर्तृभ्यः, संस्थाभ्यः तथा सामान्यनागरिकेभ्यश्च एकादशस्य आयुर्वेद-दिवसस्य २०२६-वर्षीयस्य राष्ट्रव्यापिनः अभियानस्य सक्रिय-सहभागितायै आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani