Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः सदैव इव ‘एक्स’ इत्यत्र सुभाषितरूपेण—
“शं नो वातः पवतां शं नस्तपतु सूर्यः।शं नः कनिक्रदद् देवः पर्जन्योऽभिवर्षतु॥”
इति मन्त्रं लिखितवान्। सः वायोः, सूर्यस्य, पर्जन्यदेवस्य च कल्याणाय प्रार्थनां कृतवान्।
अयं मन्त्रः शुक्लयजुर्वेदसंहितायाः षट्त्रिंशत्तमस्य अध्यायस्य दशमः मन्त्रः अस्ति। अस्मिन् मन्त्रे प्रकृतेः विविधेभ्यः तत्त्वेभ्यः मानवजात्याः विश्वस्य च कल्याणाय प्रार्थना कृता अस्ति। प्रधानमन्त्री मोदी प्रकृत्या पर्यावरणेन च स्वकीयम् आत्मीयसम्बन्धं प्रदर्शयन् ‘एक्स’ इत्यत्र अयं मन्त्रं लिखितवान्।
अस्य मन्त्रस्य भावार्थः अस्ति— “अस्माकं कृते वायुः कल्याणकारी, सुखदः, शुद्धश्च सन् प्रवहतु। सूर्यदेवः अस्माकं कृते मङ्गलमयः सन् तपतु; अर्थात् तस्य तापः प्रकाशश्च अस्मभ्यं जीवनम् ऊर्जां च दद्यात्, विनाशं न कुर्यात्। दिव्यगर्जनं कुर्वन्तः मेघाः अर्थात् पर्जन्यदेवः अस्माकम् उपरि जीवनदायकं कल्याणकारी च जलं वर्षयतु।”
अस्य मन्त्रस्य महत्त्वं दर्शयति यत् अस्माकं ऋषिणां दृष्टिकोणः कियत् वैज्ञानिकः प्रकृतिनिष्ठश्च आसीत्। मानवजीवनं पूर्णतया स्वच्छवायोः, सन्तुलित-सूर्यप्रकाशस्य, यथाकालं भवतः वर्षणस्य च उपरि निर्भरम् अस्ति। यदि प्रकृतेः एतत् सन्तुलनं विक्षुब्धं भवेत्— यथा वायुप्रदूषणम्, अत्यधिकोष्णता, अनावृष्टिः वा अतिवृष्टिः— तर्हि सम्पूर्णा मानवसभ्यता सङ्कटम् आपन्ना भवितुम् अर्हति। अयं मन्त्रः अस्मान् पर्यावरणसंरक्षणस्य प्रकृत्या सह सामञ्जस्यं स्थापयित्वा जीवनस्य च सन्देशं ददाति।
Hindusthan Samachar / Divya Ranjan