सपा शासने दलितेषु जातः सर्वतोऽधिकोऽत्याचारः -राकेशत्रिपाठी
लखनऊ, 07 सितंबरमासः (हि.स.)। समाजवादीपक्षेण स्वस्य अग्रिमसङ्गठनानां कृते नीलवर्णीयवेषः निर्धारितः इति विषये भारतीयजनतापक्षेण तस्य आलोचना कृता। भाजपायाः प्रदेशप्रवक्ता राकेशत्रिपाठी सोमवासरे निर्गते स्वस्य वक्तव्ये उक्तवान् यत् वर्णपरिवर्तनेन वस्
भाजपा के प्रदेश प्रवक्ता राकेश त्रिपाठी


लखनऊ, 07 सितंबरमासः (हि.स.)।

समाजवादीपक्षेण स्वस्य अग्रिमसङ्गठनानां कृते नीलवर्णीयवेषः निर्धारितः इति विषये भारतीयजनतापक्षेण तस्य आलोचना कृता। भाजपायाः प्रदेशप्रवक्ता राकेशत्रिपाठी सोमवासरे निर्गते स्वस्य वक्तव्ये उक्तवान् यत् वर्णपरिवर्तनेन वस्त्रे स्थितानि कलङ्कानि न म्रियन्ते। सः समाजवादीपक्षं “रङ्गपरिवर्तकशृगालम्” इति उक्तवान्।

राकेशत्रिपाठी आरोपितवान् यत् समाजवादीपक्षः वर्णं परिवर्त्य दलितान् आकर्षितुं पाखण्डं करोति, किन्तु जनाः तस्य वास्तविकतां जानन्ति। भाजपायाः प्रदेशप्रवक्त्ता उक्तवान् यत् समाजवादीपक्षस्य शासनकाले दलितानां उपरि सर्वाधिकाः अत्याचाराः अभवन्।

समाजवादीपक्षेण डॉ. भीमराव-अम्बेडकरस्य स्मारकं उत्सवस्य केन्द्रम् इति कथितमासीत्। समाजवादीपक्षस्य नेता आजमखानः बाबा साहेब-अम्बेडकरं भूमाफिया इति कथितवान् आसीत्। सः उक्तवान् यत् पुनः पुनः वर्णपरिवर्तनेन वस्त्रे स्थितानि कलङ्कानि न म्रियन्ते।

--------------

Hindusthan Samachar / Dheeraj Maithani