राष्ट्रीयशिक्षानीतिविषये अष्टदिवसीयाभिमुखीकरण-संवेदीकरणकार्यक्रमस्य अन्तर्जालीय-शुभारम्भः
हल्द्वानी, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डमुक्तविश्वविद्यालयेन राष्ट्रिय-शैक्षिकयोजना-प्रशासनसंस्थानेन, नवदिल्ली इत्यनेन सह सहयोगेन राष्ट्रियशिक्षानीतेः अभिमुखीकरण-संवेदी-करणकार्यक्रमस्य अष्टदिवसीयस्य अन्त-र्जालीय-उद्घाटनसत्रं सोमवासरे प्रारब
राष्ट्रीय शिक्षा नीति पर आठ दिवसीय अभिमुखीकरण एवं संवेदीकरण कार्यक्रम का ऑनलाइन शुभारंभ


हल्द्वानी, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डमुक्तविश्वविद्यालयेन राष्ट्रिय-शैक्षिकयोजना-प्रशासनसंस्थानेन, नवदिल्ली इत्यनेन सह सहयोगेन राष्ट्रियशिक्षानीतेः अभिमुखीकरण-संवेदी-करणकार्यक्रमस्य अष्टदिवसीयस्य अन्त-र्जालीय-उद्घाटनसत्रं सोमवासरे प्रारब्धम्। ०७ तः १५ सेप्टेम्बरमासपर्यन्तम् आयोज्य-माने अस्मिन् कार्यक्रमे देशस्य विभिन्नेभ्यः राज्येभ्यः प्रायः १८० शिक्षकाः, शोधकर्तारः शिक्षाविदश्च प्रतिभागं कुर्वन्ति। कार्यक्रमस्य अन्तर्गतं १४ शैक्षणिकसत्राणि आयोजयिष्यन्ते।

कार्यक्रमं सम्बोधयन् उत्तराखण्डमुक्त-विश्वविद्यालयस्य कुलपतिः प्रो. नवीनचन्द्रलोहनी अवदत् यत् राष्ट्रियशिक्षानीतेः प्रभावीक्रियान्वयनाय शिक्षकाणां शिक्षाविदां च मध्ये निरन्तरं संवादः, चिन्तनम् अनुभवानां च आदान-प्रदानम् आवश्यकम् अस्ति। सः अवदत् यत् विश्वविद्यालयः एतादृशानाम् अकादमिको-पक्रमाणां माध्यमेन उच्चशिक्षायां गुणवत्तापूर्णस्य समावेशिनश्च परिवर्तनस्य कृते प्रतिबद्धः अस्ति।

अस्मिन् अवसरे नीपायाः कुलपतिः प्रो. शशिकलावञ्जारी इत्यस्याः वीडियासन्देशः अपि प्रतिभागिभ्यः प्रसारितः। सा कार्यक्रमस्य शैक्षणिकप्रासङ्गिकतायाः विषये प्रकाशं क्षिपन्ती एनईपी-२०२० इत्यस्य दृष्टेः संस्थागतव्यवहारेण सह समन्वयस्य आवश्यकतायां बलं दत्तवती। कार्यक्रमे प्रो. अमितगौतमः, निदेशकः, यूजीसी-मालवीयमिशन-शिक्षकप्रशिक्षण-केन्द्रम्, नीपा; प्रो. प्रदीपकुमारमिश्रः, बैचनिदेशकः, नीपा; तथा डॉ. सुमननेगी, बैचसमन्वयिका तथा सहप्राध्यापिका, नीपा इत्येतेषां सहभागिता आसीत्। अस्मिन् अवसरे यूओयू-संस्थायाः शैक्षणिकनिदेशकः प्रो. पी. डी. पन्तः अपि उपस्थितः आसीत्।

उद्घाटनसत्रस्य अन्ते उत्तराखण्डमुक्त-विश्वविद्यालयस्य, हल्द्वानी, शिक्षाशास्त्र-विद्याशाखायाः निदेशकः तथा अस्य कार्यक्रमस्य स्थानीयसमन्वयकः प्रो. डिगरसिंहफर्स्वाणः आभारं प्रकटयन् सर्वेभ्यः अतिथिभ्यः, विशेषज्ञेभ्यः, समन्वयकेभ्यः प्रतिभागिभ्यश्च कृतज्ञतां प्रकटितवान्। सः अग्रिमेषु अष्टसु दिवसेषु आयोज्यमानः शैक्षणिकसंवादः सार्थकः ज्ञानवर्धकश्च भवतु इति शुभकामनाम् अयच्छत्।

Hindusthan Samachar / Divya Ranjan