Enter your Email Address to subscribe to our newsletters

सीवानम्, 07 सितंबरमासः (हि.स.)।
अखिलभारतीयपादकन्दुकमहासङ्घस्य तत्वावधाने आन्ध्रप्रदेशस्य अनन्तपुरे दशमसितम्बरतः पञ्चविंशतिसितम्बरपर्यन्तम् आयोज्यमानायाः राष्ट्रियकनिष्ठमहिलापादकन्दुकचैम्पियनशिप्-क्रीडायै बिहारस्य विंशतिसदस्यीयदलस्य घोषणा कृता अस्ति।
दले मैरवास्थितायाः रानीलक्ष्मीबाईक्रीडाप्रशिक्षणकेन्द्रस्य सप्तक्रीडिकानां चयनं जातम्। एकस्मिन्नेव काले सप्तक्रीडिकानां बिहारदलस्य चयनात् प्रशिक्षणकेन्द्रे हर्षस्य वातावरणम् अस्ति।
रानीलक्ष्मीबाईक्रीडाप्रशिक्षणकेन्द्रस्य संस्थापकः सह निदेशकः सञ्जयपाठकः अवदत् यत् चयनितक्रीडिकानां चयनं बरौणी-फ्लैग्-क्रीडाङ्गणे आयोजिते दशदिवसीये चयन-सह-प्रशिक्षणशिबिरे तासां उत्कृष्टप्रदर्शनस्य आधारेण कृतम्। एतत् प्रशिक्षणशिबिरं सप्तविंशतिः अगस्ततः पञ्चमसितम्बरपर्यन्तम् आयोजितम् आसीत्। अस्मिन् शिबिरे बिहारस्य चत्वारिंशत् महिलापादकन्दुकक्रीडिकाः भागं गृहीतवत्यः।
तेन उक्तं यत् रानीलक्ष्मीबाईक्रीडाप्रशिक्षणकेन्द्रात् बिहारदले चयनितासु क्रीडिकासु पिङ्की कुमारी, रौशनी कुमारी, सबिता कुमारी, रञ्जना कुमारी, पारो कुमारी, अञ्जली कुमारी तथा अंशु कुमारी सम्मिलिताः सन्ति।
अधुना एताः क्रीडिकाः राष्ट्रियस्तरीयप्रतियोगितायां बिहारस्य प्रतिनिधित्वं कुर्वन्त्यः क्रीडाङ्गणे अवतरिष्यन्ति। प्रशिक्षणकेन्द्रस्य सप्तक्रीडिकानां बिहारदले चयनितत्वे भारतीयचिकित्सकसङ्घस्य सीवानशाखायाः अध्यक्षः डॉ. शशिभूषणसिन्हा, सचिवः डॉ. शरदचौधरी, डॉ. रीतासिन्हा, डॉ. सङ्गीताचौधरी, डॉ. रामएकबालप्रसादगुप्तः, डॉ. सत्यप्रकाशः, डॉ. रामजीचौधरी, डॉ. अशोककुमारः, डॉ. अलखनिरञ्जनपाण्डेयः, निदेशकः राजीवलोचनमिश्रः इत्यादयः अनेकाः जनाः क्रीडिकाभ्यः अभिनन्दनं प्रदाय राष्ट्रियप्रतियोगितायां उत्कृष्टप्रदर्शनाय शुभकामनाः दत्तवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani