Enter your Email Address to subscribe to our newsletters


जौनपुरम्, 07 सितंबरमासः (हि.स.)।वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य कुलपतिः प्रो० आर०के०सिंहः सोमवासरे विश्वविद्यालयस्य विद्यार्थिभ्यः स्वसमयस्य अधिकतमं सदुपयोगं सार्थकासु शैक्षणिकासु विकासात्मकासु च गतिविधिषु कर्तुम् आह्वानं कृतवान्। सः उक्तवान् यत् विद्यार्थी विश्वविद्यालयस्य सर्वासां शैक्षणिकानां विकासात्मकानां च गतिविधीनां केन्द्रे सन्ति। विश्वविद्यालयस्य प्रत्येकः प्रयासः तेषां ज्ञानस्य, कौशलस्य, व्यक्तित्वस्य, व्यावसायिकविकासस्य रोजगारक्षमतायाश्च उन्नयनस्य दिशि केन्द्रितः अस्ति।
कुलपतिः विद्यार्थिभ्यः नियमितरूपेण कक्षासु उपस्थितिं दातुं, प्रयोगशालासु प्रायोगिककार्येषु च भागं ग्रहीतुं, शिक्षकैः सह शैक्षणिकसंवादं कर्तुं, पुस्तकालयस्य डिजिटलसंसाधनानां च उपयोगं कर्तुं तथा परियोजनासु, प्रशिक्षणेषु, सङ्गोष्ठीषु कार्यशालासु च सक्रियतया भागं ग्रहीतुं आग्रहं कृतवान्। सः विद्यार्थिभ्यः क्रीडासु अन्यासु सहपाठ्यक्रमीयासु च गतिविधिषु उत्साहेन भागं ग्रहीतुं अपि उक्तवान्।
प्रो० सिंहः अवदत् यत् विश्वविद्यालये शिक्षण-अधिगमयोः गुणवत्तां शैक्षणिकवातावरणं च अधिकं सुदृढं कर्तुं विभिन्नेषु स्तरेषु विविधाः प्रयासाः क्रियन्ते। परिसरस्य सूचना-प्रौद्योगिक्याः सञ्जालव्यवस्थायाश्च आधारभूतसंरचनां सुदृढां कर्तुं, वाई-फाई-सुविधां डिजिटल-संयोजकत्वं च उन्नतं कर्तुं कार्यमारब्धम् अस्ति। अनेन विद्यार्थिभ्यः शिक्षकभ्यश्च आधुनिकानां शिक्षण-अध्ययन-शोधसंसाधनानां श्रेष्ठतरः प्रवेशः सुलभो भविष्यति।
सः उक्तवान् यत् विश्वविद्यालयस्य उद्देश्यः केवलं विद्यार्थिभ्यः उपाधिप्रदानं नास्ति, अपितु तान् ज्ञानव्यावहारिककौशलैः, आत्मविश्वासेन व्यावसायिकक्षमतया च सम्पन्नान् कर्तुम् अस्ति, येन तेषां कृते उत्तमानि वृत्त्यवसराः रोजगारावसराश्च सृज्येरन्।
कुलपतिः उक्तवान् यत् विश्वविद्यालयस्य विकासः केवलं प्रशासनस्य शिक्षकाणां च प्रयासैः सम्भवः नास्ति। अस्मिन् विद्यार्थिनां सक्रियसहभागिता अपि महत्त्वपूर्णा अस्ति। सः शैक्षणिकेषु, शोधसम्बद्धेषु, नवाचारसम्बद्धेषु, कौशलविकाससम्बद्धेषु, क्रीडासु, सांस्कृतिकेषु अन्यासु च सृजनात्मकासु गतिविधिषु उत्साहपूर्वकं भागं ग्रहीतुं विद्यार्थिनाम् आह्वानं कृतवान्।
सः विद्यार्थिभ्यः परिसरे शैक्षणिकानुशासनस्य, नियमिततायाः, स्वच्छतायाः सकारात्मकस्य अध्ययनवातावरणस्य च संरक्षणे सहयोगं कर्तुं तथा विश्वविद्यालयस्य सुविधानां संसाधनानां च उत्तरदायित्वपूर्वकं उपयोगं कर्तुम् आग्रहं कृतवान्।----------------
Hindusthan Samachar / Dheeraj Maithani