स्वातन्त्र्यसङ्ग्राम-सर्किट इत्यनेन सह सम्बद्धं भविष्यति उन्नावम्, अमरशहीदचन्द्रशेखर-आजादस्य धरोहराय प्राप्यते नूतन: परिचय:
लखनऊ, ०७ सेप्टेम्बरमासः (हि.स.)। स्वातन्त्र्यसङ्ग्राम-सर्किटस्य विकासं कृत्वा स्वातन्त्र्य-आन्दोलनसम्बद्धेभ्यः स्थलेभ्यः पर्यटनक्षेत्रे नूतनां परिचितिं प्रदातुं उत्तरप्रदेशसर्वकारः विशेषं बलं ददाति। अस्यैव क्रमे संस्कृतिविभागेन अमरशहीदस्य चन्द्रशेख
शहीद चंद्रशेखर आजाद से जुड़ा स्थल


लखनऊ, ०७ सेप्टेम्बरमासः (हि.स.)। स्वातन्त्र्यसङ्ग्राम-सर्किटस्य विकासं कृत्वा स्वातन्त्र्य-आन्दोलनसम्बद्धेभ्यः स्थलेभ्यः पर्यटनक्षेत्रे नूतनां परिचितिं प्रदातुं उत्तरप्रदेशसर्वकारः विशेषं बलं ददाति। अस्यैव क्रमे संस्कृतिविभागेन अमरशहीदस्य चन्द्रशेखरआजादस्य पारिवारिकधरोहरेण सम्बद्धम् उन्नाव-जनपदस्य बदरका-स्थानं आधुनिक-सुविधाभिः सुसज्जितं क्रियते। प्रायः ५ कोटिरूप्यकाणां व्ययेन अत्र बहूद्देशीय-परिसरस्य निर्माणकार्यं तीव्रगत्या प्रचलति। अस्य परियोजनायाः ७५ प्रतिशताधिकं कार्यं पूर्णं जातम् अस्ति तथा नवम्बरमासपर्यन्तं परियोजनायाः कार्यं पूर्णं भविष्यतीति अपेक्षा अस्ति। परियोजनायाः पूर्णतायां बदरका न केवलं सामाजिक-सांस्कृतिककार्यक्रमाणां कृते सुविधासम्पन्नं केन्द्रं भविष्यति, अपितु स्वातन्त्र्यसङ्ग्रामस्य गौरवशालिनीं गाथां नववंशं प्रति प्रापयितुं महत्त्वपूर्णं धरोहरस्थलम् अपि विकसितं भविष्यति।

परियोजनायाः अन्तर्गतं मुख्यभवने ४५० जनानां क्षमतायुक्तः बहूद्देशीयः सभागारः निर्मीयते। तेन सह महिलानां पुरुषाणां च कृते पृथक्-पृथक् हरितकक्षाः शौचालय-प्रखण्डाश्च, कर्मचारीकक्षः, कार्यालयम्, अभिलेखकक्षः, खाद्यसामग्री-भाण्डारकक्षः, प्राङ्गणम्, मार्गः, पुस्तकालयः भण्डारकक्षश्च निर्मीयन्ते। परिसरे सिमेण्टमार्गः, अन्तराबन्धनकार्यं, वर्षाजल-सञ्चयनप्रणाली, ३ अश्वशक्ति-युक्तं नलकूपनिर्माणं द्वारं च इत्यादीनां सुविधानाम् अपि विकासः क्रियते। अनेन अग्रिमकाले अत्र विविधाः सांस्कृतिकाः सामाजिकाश्च कार्यक्रमाः अधिक-व्यवस्थितरूपेण आयोजयितुं शक्यन्ते।

निर्माणकार्यस्य वर्तमानस्थितिरपि परियोजनायाः तीव्रगतिना प्रगतिं सूचयति। प्रायः ५० प्रतिशतं छदिपट्टिकाकार्यं पूर्णं जातम् अस्ति, यदा मुख्यसभागारस्य छदिपट्टिकायाः निर्माणकार्यं प्रचलति। भूतले प्रथमेतले च इष्टिकानिर्माणेन सह लेपनकार्यं अपि प्रचलति। तदतिरिक्तं सिमेण्टमार्गस्य रक्षककक्षस्य च निर्माणकार्यं प्रगतिपथे अस्ति।

अस्मिन् विषये पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः सोमवासरे अवदत् यत् बदरकां केवलं स्मारकस्थलरूपेण न, अपितु अमरशहीदस्य चन्द्रशेखर-आजादस्य जीवनगाथां, संघर्षं राष्ट्रभक्तिं च नववंशं प्रति प्रापयितुं महत्त्वपूर्णं विरासताकेन्द्ररूपेण विकसितुं कार्यं क्रियते। प्रदेशसर्वकारस्य प्रयासः अस्ति यत् अत्र आधुनिकसुविधाभिः सह एतादृशं वातावरणं निर्मीयेत, यत्र आगन्तुकाः आजादस्य जीवनात् तस्य बलिदानाच्च प्रेरणां प्राप्तुं शक्नुयुः। बहूद्देशीयपरिसरस्य विकासेन बदरकायां सामाजिक-सांस्कृतिकगतिविधिभ्यः अपि नूतनं मञ्चं प्राप्स्यते।

Hindusthan Samachar / Divya Ranjan