Enter your Email Address to subscribe to our newsletters

अभिनेता संजयमिश्रेण स्वस्य दीर्घे चलचित्रजीवने गम्भीरात् हास्यप्रधानपर्यन्तं विविधाः भूमिकाः निर्व्यूढाः सन्ति। अधुना सः प्रथमवारं चलचित्रपटले साईंबाबायाः भूमिकायां दृश्यः भविष्यति। तस्य आगामीचलचित्रस्य तेरा साईं इत्यस्य प्रदर्शनतिथेः आधिकारिकघोषणा कृता अस्ति। शैलेश एस सांघवी इत्यस्य एस थ्री फिल्म्स इत्यस्य संस्थायाः प्रस्तुतेः अन्तर्गतं निर्मितस्य अस्य चलचित्रस्य निर्देशनं पलाशमुच्छलेन कृतम् अस्ति। चलचित्रे संजयमिश्रेण सह सयाजीशिन्दे, मनोजजोशी, ओंकारदासमानिकपुरी, अविकागौर तथा रोहनमेहरा इत्येते अपि प्रमुखभूमिकासु दृश्यन्ते।
प्रदर्शनतिथेः घोषणया सह निर्मातृभिः चलचित्रस्य भित्तिचित्रमपि प्रकाशितम्। भित्तिचित्रे संजयमिश्रः साईंबाबारूपेण दृश्यते, तस्य परितः च अनेके अनुयायिनः दृश्यन्ते। भित्तिचित्रे एकः लघुबालकः रुदन् अपि प्रदर्शितः अस्ति, यः चलचित्रस्य कथायाः भावनात्मकपक्षस्य सङ्केतं ददाति। चलचित्रस्य कथा साईंबाबायाः जीवनम्, तस्य शिक्षाः तेन सम्बद्धाः च चमत्काराः आधृत्य भविष्यति। साईंबाबायाः जीवनं बृहद्रजतपटले प्रस्तुतुं क्रियमाणे अस्मिन् प्रयासे संजयमिश्रस्य नूतनं रूपं दर्शकेभ्यः विशेषं भवितुम् अर्हति।
तेरा साईं इति चलचित्रं सम्पूर्णभारते प्रदर्शितं भविष्यति। सिनेपोलिस संस्थया सम्पूर्णभारते चलचित्रस्य वितरणं करिष्यते। निर्मातॄणाम् अनुसारं चलचित्रं हिन्दी, मराठी, तमिल तथा तेलुगु भाषासु दर्शकेभ्यः प्राप्स्यते। तेरा साईं इति चलचित्रं २०२७ तमस्य वर्षस्य फेब्रुवरीमासस्य पञ्चमे दिनाङ्के चलचित्रगृहेषु प्रदर्शितं भविष्यति। संजयमिश्रं प्रथमवारं साईंबाबायाः भूमिकायां द्रष्टुं तस्य प्रशंसकानां मध्ये अधुना एव उत्सुकता वर्धिता अस्ति।
Hindusthan Samachar / Dheeraj Maithani