सार्धैकदशकपुरातने कूटकृत-पासपोर्टप्रकरणे आचार्यबालकृष्णः दोषमुक्तः
हरिद्वारम्, ०७ सितम्बरमासः (हि.स.)। पतञ्जलियोगपीठस्य महामन्त्री योगगुरोः बाबा-रामदेवस्य च निकटसहयोगी आचार्यबालकृष्णः कूटकृतकर्गदानाम् आधारेण पासपोर्टनिर्माणसम्बन्धिनि प्रायः पञ्चदशवर्षपुरातने प्रकरणे देहरादूनस्थया सीबीआई-न्यायालयेन दोषमुक्तः कृतः।
आचार्य बालकृष्ण फाइल फोटो

हरिद्वारम्, ०७ सितम्बरमासः (हि.स.)। पतञ्जलियोगपीठस्य महामन्त्री योगगुरोः बाबा-रामदेवस्य च निकटसहयोगी आचार्यबालकृष्णः कूटकृतकर्गदानाम् आधारेण पासपोर्टनिर्माणसम्बन्धिनि प्रायः पञ्चदशवर्षपुरातने प्रकरणे देहरादूनस्थया सीबीआई-न्यायालयेन दोषमुक्तः कृतः।

आचार्यबालकृष्णस्योपरि आरोपः आसीत् यत् सः पासपोर्टप्राप्त्यर्थं बरेलीस्थे पासपोर्टकार्यालये खुर्जास्थस्य संस्कृत-महाविद्यालयस्य सम्बन्धीनि कथितानि कूटकृतानि शैक्षणिकप्रमाण-पत्राणि प्रस्तुतवान् आसीत्। एतस्य आधारेण तस्य विरुद्धम् आपराधिक-धाराभिः सह पासपोर्ट-अधिनियमस्य अन्तर्गतं प्रकरणं पञ्जीकृतम् आसीत्। २०११ वर्षात् विचाराधीनस्य अस्य प्रकरणस्य प्रायः सार्धदशकपर्यन्तं प्रवृत्तायाः विधिक-प्रक्रियायाः अनन्तरं न्यायालयेन आचार्यबालकृष्णः आरोपेभ्यः दोषमुक्तः कृतः।

निर्णयस्य अनन्तरम् आचार्यबालकृष्णः एतां महतीं शान्तिं वर्णयन् उक्तवान् यत् अस्मिन् दीर्घकाले तेन विविधप्रकारकाः मानसिकपीडाः अनुभूताः, किन्तु अन्ततः सत्यस्य एव विजयः अभवत्।

Hindusthan Samachar / Divya Ranjan