केन्द्रीयमन्त्री शिवराजसिंहस्य भाविकार्यक्रमस्य सज्जतायाः उपमुख्यमन्त्री शर्मणा निरीक्षणं कृतम्।
रायपुरम्, 07 सितंबरमासः (हि.स.)। केन्द्रीयग्रामीणविकासकृषिकृषककल्याणमन्त्री शिवराजसिंहचौहानस्य मुख्यातिथ्ये मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां च भावि कार्यक्रमस्य सज्जतायाः उपमुख्यमन्त्री शर्मणा निरीक्षणम् केन्द्रीयग्रामीणविकासकृषिकृषककल्या
उपमुख्यमंत्री विजय शर्मा केंद्रीय मंत्री के दाैरे की तैयारियाें का स्थल निरीक्षण करते हुए


रायपुरम्, 07 सितंबरमासः (हि.स.)। केन्द्रीयग्रामीणविकासकृषिकृषककल्याणमन्त्री शिवराजसिंहचौहानस्य मुख्यातिथ्ये मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां च भावि कार्यक्रमस्य सज्जतायाः उपमुख्यमन्त्री शर्मणा निरीक्षणम्

केन्द्रीयग्रामीणविकासकृषिकृषककल्याणमन्त्री शिवराजसिंहचौहानस्य मुख्यातिथ्ये मुख्यमन्त्री विष्णुदेवसायस्य अध्यक्षतायां च आगामी ११ सितम्बरदिने सक्तीजनपदस्य जेठाग्रामस्थिते महाविद्यालयक्रीडाङ्गणे आयोजितस्य बृहदकार्यक्रमस्य सज्जताः तीव्रतया प्रचलन्ति। कार्यक्रमे प्रधानमन्त्रिग्रामीणावासयोजनायाः लाभग्राहिणां गृहप्रवेशः, पंचायतपदाधिकारिणां लक्षपतिदिदीनां च सम्मेलनम्, विविधविकासकार्याणां लोकार्पणं भूमिपूजनं शिलान्यासश्च सहिताः अन्ये कार्यक्रमाः प्रस्ताविताः सन्ति।

कार्यक्रमस्य सज्जतानां व्यवस्थायाश्च निरीक्षणाय सोमवासरे उपमुख्यमन्त्री विजयशर्मा तथा जनपदस्य प्रभारीमन्त्री गुरुखुशवन्तसाहेबश्च जेठाग्रामं प्राप्तवन्तौ। तौ जिलाधिकारी, पुलिसाधीक्षक, जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी सहितैः सम्बन्धितैः अधिकारिभिः सह कार्यक्रमस्य सज्जतानां विस्तृतं समीक्षणं कृत्वा आवश्यकान् निर्देशान् दत्तवन्तौ।

उपमुख्यमन्त्री विजयशर्मा प्रभारीमन्त्री गुरुखुशवन्तसाहेबश्च सर्वप्रथमं कार्यक्रमाय सज्जीकृतस्य मार्गमानचित्रस्य अवलोकनं कृतवन्तौ। ततः मुख्यवेदिकायाः, तम्बूशिबिरमण्डपयोः, दर्शकदीर्घायाः, पत्रकारदीर्घायाः, अतिथीनां सामान्यजनानां च आसनव्यवस्थायाः, वाहनस्थानकस्य, पेयजलस्य, जैवशौचालयस्य, अवरोधकव्यवस्थायाः, सुरक्षायाः, यातायातव्यवस्थापनस्य तथा अतिथीनाम् आगमननिर्गमनसम्बद्धानां व्यवस्थां निरीक्षितवन्तौ।

तौ अधिकारिभ्यः प्रत्येकस्याः व्यवस्थायाः वर्तमानप्रगतेः विषये सूचनां प्राप्य उक्तवन्तौ यत् कार्यक्रमे आगच्छतां अतिथीनां, जनप्रतिनिधीनां, गणमान्यनागरिकाणां, माध्यमप्रतिनिधीनां, लाभग्राहिणां सामान्यजनानां च सुविधा सुरक्षा च सर्वोच्चप्राथमिकता भवितव्या। तौ सर्वाः आवश्यकाः व्यवस्थाः निर्धारितसमयसीमायां पूर्णाः कर्तुं निर्देशान् दत्तवन्तौ।

उपमुख्यमन्त्री शर्मणा जिलाधिकारिणे, पुलिसाधीक्षके, जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारिणे तथा सम्बन्धितेभ्यः अधिकारिभ्यश्च परस्परसमन्वयेन कार्यं कृत्वा कार्यक्रमं सुव्यवस्थितरूपेण सफलतया च सम्पन्नं कारयितुं निर्देशः प्रदत्तः। तेन पर्याप्तवाहनस्थानकस्य, सुचारुयातायातस्य, प्रवेशनिर्गमनव्यवस्थायाः तथा कार्यक्रमस्थले स्वच्छतायाः, पेयजलस्य अन्यासां मूलभूतसुविधानां च समुचितव्यवस्थां सुनिश्चितां कर्तुं निर्देशाः दत्ताः।

उल्लेखनीयं यत् ११ सितम्बरदिने जेठाग्रामे आयोजिते कार्यक्रमे विविधविकासकार्याणां लोकार्पणं भूमिपूजनं शिलान्यासश्च करिष्यते। तेन सह प्रधानमन्त्रिग्रामीणावासयोजनायाः लाभग्राहिणां गृहप्रवेशः तथा पंचायतपदाधिकारिणां लक्षपतिदिदीनां च सम्मेलनम् आयोजितं भविष्यति। कार्यक्रमे बहुसंख्यया जनप्रतिनिधीनां, लाभग्राहिणां सामान्यजनानां च सम्मिलितानां सम्भावना अस्ति।

निरीक्षणसमये उपमुख्यमन्त्री विजयशर्मा प्रभारीमन्त्री गुरुखुशवन्तसाहेबश्च जनपदस्य क्षेत्रीयजनप्रतिनिधिभिः सह अपि चर्चां कृतवन्तौ। ताभ्यां जनप्रतिनिधिभ्यः कार्यक्रमस्य बृहद् सुव्यवस्थितं च स्वरूपं प्रदातुं जनपदप्रशासनाय पूर्णं सहयोगं प्रदातुम् आग्रहः कृतः। तौ उक्तवन्तौ यत् अयं सर्वेषां कार्यक्रमः अस्ति तथा च अस्य उत्तमरीत्या आयोजनं सर्वेषां सामूहिकदायित्वम् अस्ति। ताभ्यां जनप्रतिनिधिभ्यः कार्यक्रमस्य सफलतायै सक्रियसहभागितां सुनिश्चितां कर्तुम् अपील् कृता।

निरीक्षणसमये पंचायतसचिवा ऋचा शर्मा, वीबी जीरामजी आयुक्तः तारनप्रकाशसिन्हा, जिलापञ्चायताध्यक्षः द्रौपदीकीर्तनचन्द्रा, जिलापञ्चायतस्य उपाध्यक्षः गगनजयपुरिया सहिताः जिलाधिकारी जयश्रीजैन, पुलिसाधीक्षकः प्रफुल्लठाकुर तथा अन्ये जनप्रतिनिधयः, गणमान्यनागरिकाः सम्बन्धिताः अधिकारीकर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani