शिक्षकः तादृशः दीपःअस्ति , यज्ज्ञानस्य प्रकाशं प्रसार्य आगामिसंततीनां मार्गं प्रशस्तीकुरुते : मुख्यमंत्री योगी
-बच्चों के जीवन को सही दिशा देने वाली समझ देना भी शिक्षा का महत्वपूर्ण उद्देश्य- मुख्यमंत्री लखनऊ, 07 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शिक्षकदिवसस्य आगामिनः च अन्ताराष्ट्रियसाक्षरतादिवसस्य अवसरे प्रदेशवासिनां नाम पत्रं लिखितवान्। अ
मुख्यमंत्री योगी आदित्यनाथ


-बच्चों के जीवन को सही दिशा देने वाली समझ देना भी शिक्षा का महत्वपूर्ण उद्देश्य- मुख्यमंत्री

लखनऊ, 07 सितंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः शिक्षकदिवसस्य आगामिनः च अन्ताराष्ट्रियसाक्षरतादिवसस्य अवसरे प्रदेशवासिनां नाम पत्रं लिखितवान्। अस्मिन् मुख्यमन्त्री योगी उक्तवान् यत् पञ्चम्या सितम्बरमासस्य शिक्षकदिवसे राष्ट्रनिर्माणस्य आधारशिलां स्थापयन्तः एकाशीतिं गुरुजनान् सम्मानयितुं तस्य सौभाग्यं प्राप्तम्। शिक्षकाः ते दीपाः सन्ति, ये ज्ञानस्य प्रकाशं प्रसार्य आगामिनां संततीनां मार्गं प्रशस्तं कुर्वन्ति। अस्यैव ज्ञानस्य विस्तारस्य प्रत्येकस्य व्यक्तेः सशक्तीकरणस्य च दिशि अष्टम्या सितम्बरमासस्य अन्ताराष्ट्रियसाक्षरतादिवसः आचरिष्यते।

शिक्षायाः उद्देश्यं संस्कारेभ्यः जीवनमूल्येभ्यश्च संयोजनमपि

मुख्यमन्त्री योगी उक्तवान् यत् बालानां विद्यालयगमनस्य उद्देश्यं केवलं पठनलेखनयोः ज्ञानं प्राप्तुं नास्ति, अपितु तेभ्यः ज्ञानं, संस्कारं, अनुशासनं, आत्मविश्वासं जीवनस्य सम्यग्दिशां प्रदात्रीं च प्रज्ञां प्रदातुम् अस्ति। प्राचीनभारतीयज्ञानपरम्परायां गुरुकुलाः समग्रशिक्षायाः केन्द्राणि आसन्, यत्र ज्ञानेन सह जीवनमूल्यानां दायित्वबोधस्य च शिक्षा दीयते स्म। एष एव भावः अद्यतनायाः शिक्षाव्यवस्थायाः अपि आधारः भवेत्। ज्ञानं तदैव सार्थकं भवति, यदा तत् जीवनं सरलतरेण कर्तुं समाजस्य कृते अपि उपयोगी भवति।

प्रौद्योगिकीयुगे डिजिटलसाक्षरता कृत्रिमबुद्धिसाक्षरता च आवश्यके

मुख्यमन्त्री उक्तवान् यत् अद्य प्रौद्योगिकी तीव्रगत्या अस्माकं जीवनं परिवर्तयति। अतः डिजिटलसाक्षरतया सह कृत्रिमबुद्धिसाक्षरतापि समयस्य आवश्यकता अस्ति। कृत्रिमबुद्धिः, डीप-टेक् तथा उद्भवमानाः प्रौद्योगिक्यः शिक्षायां, स्वास्थ्ये, कृषौ, उद्योगे रोजगारक्षेत्रे च नूतनान् अवसरान् उद्घाटयन्ति। अस्माकं सर्वकारः परम्परागतज्ञानं आधुनिकविज्ञानेन, प्रौद्योगिक्या, नवाचारेण कौशलविकासेन च संयोजयति। लखनऊनगरे कृत्रिमबुद्धिनगरम् तथा कानपुरनगरे ड्रोन-यूएवी-प्रौद्योगिक्याः विकसितं पारिस्थितिकीतन्त्रं उत्तरप्रदेशस्य तकनीकीभविष्यस्य नूतनसम्भावनानाम् आधारो भवति।

शिक्षायाः गुणवत्तायाः कौशलविकासस्य च विषये बलम्

मुख्यमन्त्री योगी उक्तवान् यत् प्रदेशसर्वकारेण ऑपरेशन कायाकल्प, मिशन प्रेरणा, मुख्यमन्त्री अभ्युदययोजना तथा कौशलविकासकार्यक्रमाणां माध्यमेन शिक्षायाः गुणवत्ता, विद्यालयीयसुविधाः, प्रतियोगिपरीक्षाणां सिद्धता युवानां कौशलविकासश्च इत्येतेषु विशेषं ध्यानं दत्तम्। एतेषां प्रयासानां परिणामस्वरूपं प्रदेशस्य विद्यालयेषु शिक्षाविच्छेदस्य प्रतिशतं न्यूनतमं कर्तुं दिशि महत्त्वपूर्णा सफलता प्राप्ता अस्ति तथा च अधिकाधिकाः बालकाः शिक्षायाः मुख्यधारया सह सम्बद्धाः भवन्ति।

शिक्षायात्रायां शिक्षकाः सर्वाधिकमहत्त्वपूर्णा पंक्तिः

सः उक्तवान् यत् अस्यां सम्पूर्णायां यात्रायां शिक्षकाः सर्वाधिकमहत्त्वपूर्णाः पंक्तयः सन्ति। ते विद्यार्थिषु संस्कारं, जिज्ञासां, अनुशासनं, आत्मविश्वासं दायित्वबोधं च जागरयन्ति तथा च अस्माकं गौरवशालिनीं ज्ञानपरम्पराम् आधुनिकज्ञानेन नवाचारेण च संयोजयन्ति।

साक्षरतासङ्कल्पे समाजस्य सहभागिता आवश्यकी

मुख्यमन्त्री योगी उक्तवान् यत् समाजस्य सहयोगं विना साक्षरतायाः सङ्कल्पः पूर्णः न भवितुम् अर्हति। यदि भवतां समीपे कश्चित् व्यक्तिः अक्षरज्ञानात् वञ्चितः अस्ति, तर्हि तं साक्षरं कर्तुं वयं सर्वे कर्तव्यबद्धाः स्मः। कमपि पठनलेखनं शिक्षयितुं कृतः लघुः प्रयासः तस्य जीवने ज्ञानस्य, आत्मविश्वासस्य अवसराणां च नूतनद्वाराणि उद्घाटयितुं शक्नोति।

मुख्यमन्त्रिणा प्रदेशवासिभ्यः आह्वानं कृतं यत् अन्ताराष्ट्रियसाक्षरतादिवसे सङ्कल्पं कुर्वन्तु यत् प्रत्येकं बालकः विद्यालयं गच्छेत्, प्रत्येकः विद्यार्थी गुणवत्तापूर्णां शिक्षां प्राप्नुयात्, प्रत्येकं युवकौशलेन नवाचारेण च सम्बध्येत तथा च प्रत्येकः नागरिकः साक्षरः भवितुं सह डिजिटलज्ञानस्य कृत्रिमबुद्धेः च विषये जागरूकः भवेत्।

Hindusthan Samachar / Dheeraj Maithani