Enter your Email Address to subscribe to our newsletters

वेङ्कटचलम् (नेल्लोर), ०७ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे आन्ध्रप्रदेशस्य वेङ्कटचलमे स्वर्णभारत-न्यासस्य पञ्चविंशतितमस्थापनादिवससमारोहे भागं गृहीतवान्। पूर्वोप राष्ट्रपतिना एम. वेङ्कैयानायडुना सह तेन दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भः कृतः।
सम्बोधने योगी आदित्यनाथः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अस्माकं लक्ष्यं तादृशं नूतनवंशं निर्मातुम् अस्ति, यः वैश्विकदृष्ट्या सक्षमः भवेत्, परन्तु स्वकीयैः मूलैः संस्कृत्या च सम्बद्धः भवेत्। आधुनिकप्रौद्योगिक्यां दक्षतया सह तस्य हृदये भारतं, संस्कृतौ गौरवम्, समाजं प्रति संवेदनशीलता तथा ‘राष्ट्रं प्रथमम्’ इति भावना भवेत्।
सः उक्तवान् यत् भारतस्य सभ्यतायाः महती शक्तिः ग्रामेषु निहिता अस्ति। ग्रामाः शताब्दिभ्यः अर्थव्यवस्थायाः, सामाजिक-जीवनस्य संस्कृतेश्च केन्द्राणि आसन्। विदेशी-आक्रमणैः औपनिवेशिक-कालेन च ग्रामाणां आत्मनिर्भरता दुर्बला अभवत् तथा स्थानीयसंस्थाः अपि प्रभाविताः।
योगी उक्तवान् यत् महात्मागान्धिनः ‘ग्रामस्वराज्यम्’ इति विचारं अग्रे नयन् एम. वेङ्कैयानायडुना २००१ तमे वर्षे स्वर्णभारत-न्यासस्य स्थापना कृता। न्यासेन स्वास्थ्यसेवा, कृषकप्रशिक्षणम्, महिलाप्रशिक्षणम्, व्यावसायिकशिक्षा, सङ्गणकप्रशिक्षणम् तथा वञ्चित-बालकानां शिक्षायै विद्यालयाः च सञ्चालिताः सन्ति।
मुख्यमन्त्री उत्तरप्रदेशस्य ‘एकः जनपदः एकं उत्पादः’ इति योजनायाः उल्लेखं कुर्वन् उक्तवान् यत् पारम्परिकशिल्पिनां कौशलाय नूतनं विपणिं प्रदातुं योजना आरब्धा। ‘मिशनशक्ति’-माध्यमेन ग्रामीण-महिलाः ‘बीसी-सखी’रूपेण प्रशिक्षिताः सन्ति, येन ग्रामेषु एव धनागारसेवाः सुलभाः अभवन्।
सः उक्तवान् यत् आधुनिकप्रौद्योगिकी भेदभावं न करोति। तस्याः प्रभावीप्रयोगेन महिला-ग्रामीणसशक्तीकरणयोः नूतना गतिः प्राप्ता अस्ति। समारोहस्य अवसरे पूर्वोपराष्ट्रपतिः एम. वेङ्कैयानायडुः, आन्ध्रप्रदेशसर्वकारस्य मन्त्रिणः, जनप्रतिनिधयः तथा स्वर्णभारत-न्यासस्य पदाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan