वाराणसी: विधायको डॉ नीलकंठः अकरोत् वार्ड प्रवासः, सीवरपाइपपरिवर्तनस्य दत्तो निर्देशः
वाराणसी, 07 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे जनप्लावनेन पीडितक्षेत्रे कोनियायां दक्षिणीविधानसभाक्षेत्रस्य विधायकः डॉ० नीलकण्ठतिवारी वार्डप्रवासं कृतवान्। षट्सप्ततिदिवसीयस्य वार्डप्रवासस्य अन्तर्गतं सोमवासरे विधायकः डॉ० नीलकण्ठतिवारी
झाड़ू लगाते हुए विधायक डॉ नीलकंठ


वाराणसी, 07 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदे जनप्लावनेन पीडितक्षेत्रे कोनियायां दक्षिणीविधानसभाक्षेत्रस्य विधायकः डॉ० नीलकण्ठतिवारी वार्डप्रवासं कृतवान्। षट्सप्ततिदिवसीयस्य वार्डप्रवासस्य अन्तर्गतं सोमवासरे विधायकः डॉ० नीलकण्ठतिवारी श्रीकाशीविश्वनाथमण्डलस्य कोनियावार्डे स्वच्छताकार्यस्य निरीक्षणं कृतवान्।

विधायकः जलप्लावनेन पीडितैः जनैः सह वार्तालापं कुर्वन् तेषां समस्याः अशृणोत् तथा च तासां तत्कालप्रभावेण निराकरणाय अधिकारिभ्यः निर्देशान् दत्तवान्। डॉ० नीलकण्ठतिवारी द्वयोः कूपयोः संरक्षणाय सौन्दर्यीकरणाय च निर्देशं दत्तवान्। तेन सह एकस्य दोषपूर्णस्य मलनिस्सारणनालस्य जलपाइपस्य च परिवर्तनाय अपि अधिकारिभिः सह वार्तालापं कृत्वा निर्देशाः दत्ताः।

अस्मिन् क्रमे विधायकः स्थानीयजनैः सह ‘एकं वृक्षं मातृनाम्ना’ इति अभियानस्य अन्तर्गतं पञ्च वृक्षान् आरोपितवान्। कोनियायां भ्रमणं कुर्वन् कतिपयेषु स्थानेषु कूडं दृष्ट्वा विधायकः डॉ० नीलकण्ठतिवारी स्वयं सम्मार्जनीं गृहीत्वा स्वच्छतां कृतवान्। सः समीपस्थेषु निवत्सद्भ्यः जनभ्यः स्वच्छतां संरक्षितुं आग्रहं कृतवान्।

विधायकः उक्तवान् यत् बाढपीडिते कोनियाक्षेत्रे स्वच्छता अत्यन्तम् आवश्यकी अस्ति। स्वच्छतायाः अभावे रोगाणां सम्भावना भवितुं शक्नोति। अतः उत्तरदायिनः अधिकारिणः स्थानीयजनाश्च उभे स्वच्छतायां विशेषं ध्यानं दद्युः।

---------------

Hindusthan Samachar / Dheeraj Maithani