मीरजापुरे अजा-एकादश्यां शीतलामातुः मन्दिरे समागताः श्रद्धालवः
मीरजापुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य हलियाक्षेत्रे गड़बड़ाधाम्नि स्थिते प्रसिद्धे शीतलामातुः मन्दिरे सोमवासरे अजा-एकादश्याः अवसरे श्रद्धालूनां विशालः जनसमूहः समागतः। प्रातः मन्दिरस्य कपाटोद्घाटनमात्रेण दर्शनपूजनार्थ
गड़बड़ा शीतला मां की सजी झांकी


मीरजापुरम्, ०७ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य हलियाक्षेत्रे गड़बड़ाधाम्नि स्थिते प्रसिद्धे शीतलामातुः मन्दिरे सोमवासरे अजा-एकादश्याः अवसरे श्रद्धालूनां विशालः जनसमूहः समागतः। प्रातः मन्दिरस्य कपाटोद्घाटनमात्रेण दर्शनपूजनार्थं भक्तानां पङ्क्तिः आरब्धा। अजा-एकादश्याः सोमवासरस्य च संयोगेन मन्दिरपरिसरे विशेषः धार्मिकः उत्साहः दृश्यते स्म।

शीतलामातुः मन्दिरे पुरुषाः, महिलाः बालकाश्च समागत्य विधिविधानपूर्वकं पूमर्चनां कृतवन्तः। भक्तैः पुष्पमालाः, चुनरी-वस्त्रं, नारिकेलं, बताशकानि तथा प्रसादं च समर्प्य परिवारस्य सुखशान्तेः समृद्धेश्च कामना कृता। अस्मिन् अवसरे मन्दिरपरिसरः शीतलामातुः जयघोषैः निनादितः अभवत्।

स्थानीयक्षेत्रस्य अतिरिक्तं समीपस्थेभ्यः ग्रामेभ्यः पार्श्वस्थेभ्यश्च जनपदेभ्यः अपि श्रद्धालवः दर्शनार्थम् आगतवन्तः। सोमवासरत्वात् अनेकैः भक्तैः शीतलामातुः दर्शनेन सह भगवत: शिवस्यापि पूजनं कृतम्। श्रद्धालुभिः व्रतं धृत्वा दानपुण्यं कृतं तथा परिवारस्य मङ्गलस्य कामना कृता।

मन्दिरस्य पुजारी रजनीशपाण्डेयः तथा मङ्गलधारीमिश्रः अवदताम् यत् अजा-एकादश्याः अवसरे प्रायः पञ्चविंशतिसहस्रं श्रद्धालवः शीतलामातुः दर्शनपूजनं कृतवन्तः। सम्पूर्णे दिने भक्तानां आगमनस्य क्रमः निरन्तरं भविष्यति तथा जयघोषैः गड़बड़ाधाम्नः वातावरणं भक्तिमयं जातम् अस्ति।

Hindusthan Samachar / Divya Ranjan