Enter your Email Address to subscribe to our newsletters

वाराणसी : सारनाथे मैदागिने च आधुनिकानि खाद्यवीथिकाकेन्द्राणि निर्मीयन्ते, विक्रेतृभ्यः प्राप्स्यन्ते उत्तमतराः सुविधाः
महापौरस्य अशोककुमारतिवारिणः, मण्डलायुक्तस्य बीपीसीएल संस्थायाः च अध्यक्षस्य प्रबन्धनिदेशकस्य संजयखन्नस्य च उपस्थितौ सहमतिपत्रेषु हस्ताक्षराणि
वाराणसी, ०७ सितम्बरमासः (हिस)। उत्तरप्रदेशस्य धार्मिकप्राचीननगरी काश्याः नगरीयसंरचनां आधुनिकीकर्तुं तथा च तस्याः समृद्धां सांस्कृतिकाम् आध्यात्मिकीं च विरासतं संरक्षितुं दिशि सोमवासरे महत्त्वपूर्णं पदं स्थापितम्। भारतपेट्रोलियमनिगमलिमिटेड संस्थया स्वस्य निगमीयसामाजिकदायित्वनिधेः माध्यमेन वाराणस्यां ६९.२१ कोटिरूप्यकाणामधिकमूल्ययोः द्वयोः महत्त्वाकांक्षिपरियोजनयोः कृते सहमतिपत्रेषु हस्ताक्षराणि कृतानि।
अस्याः योजनायाः अन्तर्गतं ४८ कोटिरूप्यकैः वाराणस्याः ११९ सार्वजनिकोद्यानानां जीर्णोद्धारः सौन्दर्यीकरणं च करिष्यते। सारनाथे मैदागिने च द्वे आधुनिके खाद्यवीथिकाकेन्द्रे अपि विकसिते करिष्येते।
नदेसरस्थिते एकस्मिन् होटलप्राङ्गणे आयोजिते कार्यक्रमे महापौरः अशोककुमारतिवारी, मण्डलायुक्तः एस राजलिङ्गम् तथा बीपीसीएल संस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च संजयखन्ना इत्येतेषां उपस्थितौ एतेषु सहमतिपत्रेषु हस्ताक्षराणि कृतानि। अस्मिन् अवसरे बीपीसीएल संस्थायाः कार्यकारीनिदेशकः मानवसंसाधनविभागस्य डी पार्थसारथी, नगरायुक्तः हिमांशुनागपालः, वाराणसीविकासप्राधिकरणस्य उपाध्यक्षः पूर्णबोरा, काशीसमेकितपार्किङ्गमनोरञ्जनप्रतिष्ठानस्य निदेशकः अमरेन्द्रतिवारी तथा बीपीसीएल संस्थायाः जनपदप्रशासनस्य च अनेकाः वरिष्ठाः अधिकारीणः अपि उपस्थिताः आसन्।
प्रथमसहमतिपत्रस्य अन्तर्गतं बीपीसीएल संस्था ४८ कोटिरूप्यकाणां निगमीयसामाजिकदायित्वनिधिं प्रदास्यति। तेन वाराणस्याः ११९ सार्वजनिकोद्यानानां पुनर्विकासः सौन्दर्यीकरणं च करिष्यते। अस्मिन् भूशोभीकरणम्, पदचारिपथाः, मुक्तव्यायामशालाः, बालानां क्रीडोपकरणानि, जलनिकासीव्यवस्था, प्रकाशव्यवस्था तथा उद्यानपालनादयः सुविधाः समाविष्टाः भविष्यन्ति।
अस्यैव परियोजनायाः अन्तर्गतं सारनाथे मैदागिने च सुव्यवस्थितविक्रयव्यवस्था, जलस्वच्छताव्यवस्था, सीसीटीवी निरीक्षणव्यवस्था, सौरप्रकाशव्यवस्था तथा उन्नताभ्यागतसुविधाभिः युक्ते द्वे आधुनिके खाद्यवीथिकाकेन्द्रे विकसिते करिष्येते। इयं परियोजना बीपीसीएल, काशीसमेकितपार्किङ्गमनोरञ्जनप्रतिष्ठानम् तथा वाराणसीस्मार्टसिटीलिमिटेड इत्येतयोः संयुक्तसहभागितया कार्यान्विता भविष्यति।
अपरतः वाराणसीविकासप्राधिकरणेन सह २१.२१ कोटिरूप्यकाणां द्वितीयसहमतिपत्रे हस्ताक्षराणि कृतानि। अस्य अन्तर्गतं नगरस्य प्रमुखानां ऐतिहासिकमार्गाणां कायाकल्पः करिष्यते।
ठठेरीविरासतवीथीतः कालभैरवमन्दिरपर्यन्तं विरासतगलियारस्य विकासः सौन्दर्यीकरणं च करिष्यते। गोदौलियाचतुष्पथात् मैदागिनचतुष्पथपर्यन्तं भवनानाम् अग्रभागानां सौन्दर्यीकरणं करिष्यते। मणिकर्णिकाघाटे मणिकर्णिकेश्वरमन्दिरस्य दिशि गच्छन्त्याः वीथ्याः पुनर्विकासः करिष्यते।
एतेषु कार्येषु विरासतपरम्परानुकूलः मार्गनिर्माणम्, पाषाणनिर्मितमार्गः, भवनानाम् अग्रभागानां नवीनीकरणम्, विरासतप्रकाशव्यवस्था, सूचनाफलकानि, पथोपकरणानि, भित्तिचित्राणि, सार्वजनिककला तथा पदचारिणाम् अनुकूलं मूलभूतसंरचनानिर्माणं च करिष्यते।
स्थानीयजीविकायाः पर्यटनस्य च प्रोत्साहनम्
३६ मासानां अवधौ पूर्णतां गमिष्यन्त्यः एताः परियोजनाः वाराणस्याः नागरिकसुविधानां, नगरीयसौन्दर्यस्य, पर्यावरणीयस्थैर्यस्य तथा विरासतपर्यटनस्य क्षेत्रेषु उल्लेखनीयां वृद्धिं जनयिष्यन्ति। एताभिः परियोजनाभिः स्थानीयजनानां, श्रद्धालूनां पर्यटकानां च कृते विश्वस्तरीयाः सुविधाः प्राप्स्यन्ति। तेन स्थानीयविक्रेतृभ्यः आजीविकायाः नवीनाः अवसराः अपि सृज्यन्ते।
Hindusthan Samachar / Dheeraj Maithani