उपराष्ट्रपतिना गौहाटीविश्वविद्यालये ११० कोटिरूप्यकाणां विकासपरियोजनायाः आधारशिला स्थापिता
गुवाहाटी, ०७ सितम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे असमस्य राज्यपालस्य लक्ष्मण-प्रसादाचार्यस्य मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः च उपस्थितौ गौहाटीविश्वविद्यालये ११० कोटिरूप्यकाणां आधारभूतसंरचनाविकासपरियोजनायाः प्रथमचरणस्य
Vice President of India CP Radhakrishnan Laying Foundation Stone Of ₹110-Crore GU Infra Project.


गुवाहाटी, ०७ सितम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे असमस्य राज्यपालस्य लक्ष्मण-प्रसादाचार्यस्य मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः च उपस्थितौ गौहाटीविश्वविद्यालये ११० कोटिरूप्यकाणां आधारभूतसंरचनाविकासपरियोजनायाः प्रथमचरणस्य आधारशिलां स्थापितवान्।अवसरेऽस्मिन् उपराष्ट्रपतिना विश्व-विद्यालयस्य छात्रैः, शिक्षकैः विशिष्ट-नागरिकैश्च सह संवादः कृतः। तेन ‘चन्द्रकान्त-डिक्शनरी’ इत्यस्य पञ्चम-संशोधित-विस्तारितसंस्करणस्य तथा भारतरत्नस्य डॉ. भूपेनहजारिकस्य शत-तमजयन्त्यवसरे प्रकाशितस्य ‘भूपेन-हजारिका-हण्ड्रेड इयर्स ऑफ अ वाण्डरिङ्ग सङ्ग’ इति पुस्तकस्य च विमोचनं कृतम्।

मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा उक्तवान् यत् विश्वविद्यालयस्य मूल्याङ्कनं केवलं तस्य आधारभूतसंरचनया न, अपितु तेन निर्मितया बौद्धिकसम्पदया विद्यार्थिषु विकसितैर्मूल्यैश्च करणीयम्। राज्य-सर्वकारेण गौहाटीविश्वविद्यालयस्य आधारभूतसंरचनाविकासाय २५० कोटिरूप्यकाणाम् अनुदानं घोषितम् अस्ति। प्रथमचरणे ११० कोटिरूप्यकैः शैक्षणिकभवनानां, छात्रावासानाम् आवासीयपरिसरस्य च निर्माणं भविष्यति।मुख्यमन्त्री ‘विकसितभारत-२०४७’ इति लक्ष्यं स्मारयन् उक्तवान् यत् युवानः स्वकीयैः मूल्यमूलैः सम्बद्धाः भूत्वा आधुनिकप्रौद्योगिक्यां दक्षाः अपि भवितव्याः। सः गौहाटीविश्वविद्यालये जापानी, आङ्ग्ल तथा जर्मनभाषाणाम् अध्ययनम् अनुसन्धानं च प्रोत्साहयितुम् आह्वानं कृतवान्।

सः कृत्रिमबुद्धिमत्ता, दत्तांशखननम्, अर्धचालकप्रौद्योगिकी तथा उन्नत-प्रौद्योगिकी इत्येतेषु क्षेत्रेषु अनुसन्धानस्य प्रोत्साहनस्य आवश्यकताम् अपि प्रतिपादितवान्। सकारात्मकं सृजनात्मकं च चिन्तनं स्वीकर्तुं युवानः प्रेरिताः। समारोहस्य अवसरे शिक्षामन्त्री डॉ. रणोजपेगू, विश्वविद्यालयस्य कुलपतिः प्रो. नानीगोपालमहन्तेन सह अनेके गणमान्याः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan