विश्वभारतीशैक्षिकसङ्घेन २०२६-२९ कालावधये नूतनसमितेः गठनं कृतम्
कोलकाता, ०७ सेप्टेम्बरमासः (हि.स.)। विश्वभारतीशैक्षिकसङ्घेन २०२६ तमात् वर्षात् २०२९ तमं वर्षं यावत् कार्यकालाय सर्वसम्मत्या नूतनसमितेः गठनं कृतम्। २०१३ तमात् २०१९ तमं वर्षं यावत् ए.बी.आर.एस.एम.-इत्यस्य केन्द्रीय-विश्वविद्यालयशिक्षकसङ्घस्य संस्थापक-
विश्व भारती


कोलकाता, ०७ सेप्टेम्बरमासः (हि.स.)। विश्वभारतीशैक्षिकसङ्घेन २०२६ तमात् वर्षात् २०२९ तमं वर्षं यावत् कार्यकालाय सर्वसम्मत्या नूतनसमितेः गठनं कृतम्। २०१३ तमात् २०१९ तमं वर्षं यावत् ए.बी.आर.एस.एम.-इत्यस्य केन्द्रीय-विश्वविद्यालयशिक्षकसङ्घस्य संस्थापक-संयोजकरूपेण कार्यं कृतवान् प्रोफेसर बिप्लबलोहचौधरी समितेः अध्यक्षरूपेण निर्वाचितः अस्ति।

नूतनसमितौ डॉ. अजयदासः उपाध्यक्षः, डॉ. शुभ्राज्योतिदासः महासचिवः, प्रोफेसर् भोलानाथमण्डलः तथा डॉ. प्रज्ञा-लङ्कारभिक्खुः संयुक्तसचिवौ, डॉ. अभिजीतघोषः च कोषाध्यक्षरूपेण दायित्वं प्राप्तवन्तः। तदतिरिक्तं कार्यकारिणी-समित्याः सदस्यरूपेण विंशतिः सदस्याः नामाङ्किताः सन्ति।

विश्वभारतीशैक्षिकसङ्घस्य अनुसारम् एषा ए.बी.आर.एस.एम.-इत्यस्य एकमात्रा विश्वविद्यालयशाखा अस्ति, यत्र शिक्षकाः शैक्षणिककर्मचारिणश्च उभे एकस्याः समितेः भागिनः सन्ति। नूतनसमितेः गठनानन्तरं प्रोफेसर बिप्लबलोहचौधरी सर्वेभ्यः सदस्येभ्यः विश्वविद्यालयस्य प्रतिष्ठां गौरवं च पुनः प्रतिष्ठापयितुं सकारात्मकं योगदानं दातुम् आह्वानं कृतवान्।

तेन उक्तं यत् विश्वविद्यालयस्य हिताय सर्वैः सदस्यैः मिलित्वा सक्रियभूमिका निर्वोढव्या। अस्यैव क्रमेण तेन सेप्टेम्बर-अक्टोबर-मासयोः नूतनसदस्यता-भियानस्य घोषणामपि कृता। अस्य अभियानस्य उद्देश्यम् अस्ति यत् पूजोत्सवानन्तरं विजयादशम्याः अवसरे अधिकाधिकान् नूतनसदस्यान् सङ्घेन सह संयोजयितुम्।

सम्प्रति विश्वभारतीशैक्षिकसङ्घस्य प्रायः सप्ततिः सदस्याः सन्ति। सङ्घस्य लक्ष्यम् अग्रिमसदस्यताभियानेन सदस्यसङ्ख्यां वर्धयितुं तथा विश्वविद्यालयस्य शिक्षकाणां शैक्षणिककर्मचारिणां च सहभागितां अधिकं सुदृढां कर्तुम् अस्ति।

Hindusthan Samachar / Divya Ranjan