Enter your Email Address to subscribe to our newsletters




विश्वपैरा धनुर्विद्याशृङ्खलायां भारतस्य सप्त पदकानि सुनिश्चितानि, शीतलदेवी अन्तिमस्पर्धायां प्रविष्टा
त्रिषु रेकर्वदलस्पर्धासु भारतस्य पदकानि सुनिश्चितानि
अहमदाबाद, ०७ सितम्बरमासः (हिस)। विश्वधनुर्विद्यापैरा शृङ्खला २०२६ इत्यस्य तृतीये दिने भारतीयधनुर्धरैः उत्कृष्टं प्रदर्शनं कुर्वद्भिः सप्त पदकानि सुनिश्चितानि। पैरा कम्पाउण्ड महिला एकलस्पर्धायां शीतलदेवी अन्तिमस्पर्धायां स्थानं प्राप्तवती। अन्तिमस्पर्धायां ९ सितम्बरदिने तस्याः स्पर्धा कजाकिस्तानदेशस्य ऐजादा सेइदान इत्यनया सह भविष्यति।
एकलस्पर्धासु सरिता तोमनकुमारश्च कांस्यपदकस्पर्धायां प्रविष्टवन्तौ। रेकर्वमहिलाएकलस्पर्धायां भावना राजश्रीधनराजराठौडश्च कांस्यपदकाय परस्परं स्पर्धिष्येते, येन भारतस्य एकं पदकम् अधिकं सुनिश्चितम् अभवत्। डब्ल्यू वन महिलावर्गे स्वातिचौधरी अपि कांस्यपदकाय स्पर्धिष्यते।
दलीयस्पर्धासु भारतस्य त्रिष्वपि पैरारेकर्ववर्गेषु पदकानि सुनिश्चितानि सन्ति। हरविन्दरसिंहविजयसुंडी पुरुषदले, भावनापूजा महिला दले तथा हरविन्दरभावना मिश्रितदले अन्तिमस्पर्धायां प्रविष्टवन्तौ। कम्पाउण्ड पुरुषदले तोमनकुमारः श्यामसुन्दरस्वामी च अन्तिमस्पर्धायां स्तः, यदा तु शीतलपायलयोः महिला युगलं कांस्यपदकाय स्पर्धिष्यते। डब्ल्यू वन मिश्रितदले आदिलअंसारी स्वातिचौधरी च अपि अन्तिमस्पर्धायां स्थानं प्राप्तवन्तौ।
प्रतियोगितायाः पदकस्पर्धाः ८ ९ सितम्बरदिनयोः भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani