राजगढजनपदस्य द्वयोः शिक्षकयोः राज्यपालपुरस्काराय चयनम्
राजगढम्, ०७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजगढजनपदस्य शासकीय-उच्चविद्यालये पाडल्याखेड़ी इत्यत्र कार्यरतस्य माध्यमिकशिक्षकस्य प्रभारी-प्राचार्यस्य च मुकेशनागरस्य राज्यपालपुरस्काराय चयनं जातम्। तस्य सम्माननं ०८ सेप्टेम्बरमासे राजभवने करिष्यत
राज्यपाल पुरस्कार, नवाचार और बेहतर परिणामों से बनाई पहचान


राजगढम्, ०७ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजगढजनपदस्य शासकीय-उच्चविद्यालये पाडल्याखेड़ी इत्यत्र कार्यरतस्य माध्यमिकशिक्षकस्य प्रभारी-प्राचार्यस्य च मुकेशनागरस्य राज्यपालपुरस्काराय चयनं जातम्। तस्य सम्माननं ०८ सेप्टेम्बरमासे राजभवने करिष्यते। अपरतः शासकीय-प्राथमिक-विद्यालये क्रमाङ्क-२, माचलपुरे कार्यरतः प्राथमिकशिक्षकः सुरेशचन्द्रसोनी भोपालनगरे आयोजिते समारोहे राज्य-पालपुरस्कारेण सम्मानितः।

शिक्षकः मुकेशनागरः वर्षे २००७ तमे विद्यालये नियुक्तिं प्राप्तवान्। ततः आरभ्य शैक्षणिकगुणवत्तायाः उन्नयनाय तेन निरन्तरं विविधाः नवाचाराः कृताः। तस्मिन् समये दशम्याः कक्षायाः परिणामः शून्यतः दशप्रतिशतमध्ये आसीत्, यः तस्य प्रयासैः ८० तः ९६.८८ प्रतिशतपर्यन्तं प्राप्तः। वर्षे २०२१ तमे छात्रेण जितेन्द्रसौन्धिया इत्यनेन गणितविषये शतं मध्ये शतं प्राप्तम् तथा वर्षे २०२५ तमे अङ्कितसौन्धिया इत्यनेन ९९ अङ्काः प्राप्ताः।

डिजिटल-प्रश्नोत्तरी तथा पाठयोजनया सुगमा जाता गणितशिक्षा

गणितविषये एम.एस्.सी. उपाधिधारी नागरेण ब्लूप्रिण्ट्-आधारितानि डिजिटल-प्रश्नोत्तराणि, अध्यायवाराः पाठयोजनाः तथा आदर्शपरीक्षाप्रश्नपत्राणि सज्जीकृतानि। एतेषु मण्डलस्य पूर्वप्रश्नाः अपि समाविष्टाः। तेन निर्मितायाः शैक्षणिकसामग्र्याः उपयोगः जनपदस्य २१६ शासकीय-उच्चविद्यालयेषु उच्चतर-माध्यमिकविद्यालयेषु च भवति। बालिकानां शिक्षायाः संवर्धनाय बालविवाहस्य निवारणाय च तेन अभिभावकैः सह संवादः कृतः। चत्वारिंशदधिकान् शिक्षां त्यक्तवन्तः विद्यार्थिनः ‘रुक जाना नहीं’ इत्यस्य योजनायाः मुक्तविद्यालयस्य च माध्यमेन पुनः शिक्षया संयोजिताः।

माचलपुरस्य शिक्षकः सुरेशचन्द्रसोनी गुणवत्तापूर्णया, बालकेन्द्रितया आनन्दमय्या च शिक्षया सह ‘विद्यालय-उपहार-योजना’ इत्यत्र जनसहभागितायै सम्मानितः। तेन समुदायस्य विद्यालयेन सह संयोजनं कृत्वा एफ.एल्.एन.-स्मार्टकक्षायाः स्थापनासहितं विद्यालयस्य सर्वाङ्गीणविकासाय प्रयासाः कृताः। उभयोः शिक्षकयोः उपलब्धिः जनपदस्य शिक्षाजगतः कृते गौरवस्य विषयः इति कथितम्।

Hindusthan Samachar / Divya Ranjan