मुख्यमन्त्रिणा योगिना आङ्गनवाडीकार्यकर्तॄणां, सहायिकानां, बालकानां च वर्धितम् उत्साहबलम्।
नियुक्तिपत्राणां वितरणं कृतम्, सम्मानिताः, वर्धितमानधनस्य धनादेशानामपि वितरणम् अभवत्। अयोध्या, ०८ सितम्बरमासः(हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः ‘आङ्गनवाडीकेंद्रस्य स्वरः स्वस्थबालकः-शिक्षितसमाजः’ इत्यस्य अन्तर्गतं अयोध्यायाम् आङ्गनवाडीकार्यकर्त
मुख्यमंत्री अयोध्या


नियुक्तिपत्राणां वितरणं कृतम्, सम्मानिताः, वर्धितमानधनस्य धनादेशानामपि वितरणम् अभवत्।

अयोध्या, ०८ सितम्बरमासः(हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः ‘आङ्गनवाडीकेंद्रस्य स्वरः स्वस्थबालकः-शिक्षितसमाजः’ इत्यस्य अन्तर्गतं अयोध्यायाम् आङ्गनवाडीकार्यकर्त्रीः, सहायिकाः, मेधाविबालकान् तथा पोषणशिक्षामहिलाकल्याणसम्बद्धाः उत्कृष्टाः अधीक्षिकाः च सम्मानितवान्। सः नवनियुक्ताभ्यः आङ्गनवाडीकार्यकर्त्रीभ्यः सहायिकाभ्यश्च नियुक्तिपत्राणि वितरितवान्। वर्धितमानधनस्य धनादेशाः वितरिताः। तत्सह २,५१,१६२ आङ्गनवाडीकार्यकर्त्रीभ्यः सहायिकाभ्यश्च साटिकायै प्रत्यक्षलाभान्तरणस्य माध्यमेन २९.११ कोटिरूप्यकाणां धनराशिः अन्तरणं कृतम्। अस्मिन् अवसरे ‘नवीन टेक होम राशन’ (टीएचआर) इति कॉफी टेबल पुस्तिकायाः विमोचनमपि अभवत्।

एतासां व्यक्तीनां सम्माननं कृतं तथा धनादेशः, साटिका, प्रशस्तिपत्रम् इत्यादीनि प्रदत्तानि—

वर्धितमानधनस्य धनादेशवितरणम्

सुनीता पाण्डेयः — आङ्गनवाडीकार्यकर्त्री

सोनी साहू — आङ्गनवाडीसहायिका

साटिकावितरणम्

ममता पाण्डेयः — आङ्गनवाडीकार्यकर्त्री

नीलमा यादवः — आङ्गनवाडीकार्यकर्त्री

अर्चना मिश्रा — आङ्गनवाडीसहायिका

सोनी साहू — आङ्गनवाडीसहायिका

नवनियुक्तानाम् आङ्गनवाडीकार्यकर्त्रीणां सहायिकानां च नियुक्तिपत्रवितरणम्

ज्योतिः निषादः — आङ्गनवाडीसहायिका

अमृता निषादः — आङ्गनवाडीसहायिका

अतिकुपोषितश्रेण्याः सामान्यपोषणस्थितिं प्राप्तवतां बालकानां तथा सम्बद्धानाम् आङ्गनवाडीकार्यकर्त्रीणां सम्माननम्

अनाया — आरत्याः पुत्री

परी कन्नौजिया — सारिकायाः पुत्री

मिथलेशकुमारी — आङ्गनवाडीकार्यकर्त्री

महिलाकल्याणविभागेन सञ्चालिते संवासिनीगृहे निवसद्भिः बालकैः शिक्षासंस्थाने प्राप्तस्य उत्कृष्टपरिणामस्य कृते सम्माननम्

मोहिनी पाल — अन्तरमाध्यमिकपरीक्षायां ८२.०२ प्रतिशताङ्काः — प्रशस्तिपत्रं पुटकं च।

भाविनी शर्मा — उच्चविद्यालयपरीक्षायां ८९.१६ प्रतिशताङ्काः — प्रशस्तिपत्रं पुटकं च।

देवेश यादवः — उच्चविद्यालयपरीक्षायां ७७ प्रतिशताङ्काः — प्रशस्तिपत्रं पुटकं च।

महिलाकल्याणविभागस्य उत्कृष्टविभागीयसेवानां कृते सम्माननम्

सफलता — अधीक्षिका, राजकीयबालगृहं बालिका, लखनऊ — प्रशस्तिपत्रम्।

नीतू सिंहः — पर्यवेक्षिका, राजकीयबालगृहं बालिका, प्रयागराज — प्रशस्तिपत्रम्।

‘बेटी बचाओ, बेटी पढ़ाओ’ इत्यस्य अन्तर्गतं माउण्ट एवरेस्ट आधारशिबिरविजयाभियानं कृतवतीनां बालिकानां सम्माननम्

नीलांशु — प्रशस्तिपत्रं पुटकं च।

प्रियंका उपाध्यायः — प्रशस्तिपत्रं पुटकं च।

प्रियंका प्रजापतिः — प्रशस्तिपत्रं पुटकं च।

तत्रैव आईआरएफसी, नवदेहल्याः श्वेतकेतुमिश्रः (मुख्यः महाप्रबन्धकः) तथा अवनीशप्रकाशः द्विकोटिरूप्यकाणां सीएसआर-माध्यमेन जनपदस्य १,२५० आङ्गनवाडीकेंद्रेभ्यः पूर्वप्राथमिकशिक्षणपेटिकाः प्रदत्तवन्तौ। भारतकेयर्स-संस्थायाः मुख्यकार्यकारी अधिकारी भोमिकशाहः ५,००० छात्राभ्यः छात्रवृत्तिं प्रदत्तवान् तथा ‘जगमग अयोध्या’ कार्यक्रमस्य क्रियान्वयनमपि कृतवान्। एतौ अपि मुख्यमन्त्रिणा योगिना आदित्यनाथेन प्रशस्तिपत्रं प्रदाय सम्मानितौ।

Hindusthan Samachar / Dheeraj Maithani