Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा योगी आदित्यनाथेन अयोध्यातः बृहद्घोषणा — आङ्गनवाडीकर्मकर्यः सहायिकानां च परिवाराणां कृते प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सासुविधा
अयोध्या, ०८ सितम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन मङ्गलवासरे प्रदेशस्य २.९१ लक्षाधिकानाम् आङ्गनवाडीकर्मकर्यः सहायिकानां च कृते बृहद् सौगातं प्रदत्तम्। आङ्गनवाडीकर्मकर्याणां मानधनं अष्टसहस्ररूप्यकेभ्यः वर्धयित्वा द्वादशसहस्ररूप्यकाणि प्रतिमासं करिष्यते, सहायिकानां मानधनं च चतुःसहस्ररूप्यकेभ्यः वर्धयित्वा षट्सहस्ररूप्यकाणि प्रतिमासं करिष्यते। तेन सह कर्मकर्यः, सहायिकाः तासां परिवारजनाश्च प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सायाः सुविधां प्राप्स्यन्ति। अधुना ताभ्यः द्वे साटिके न, अपितु तिस्रः साटिकाः प्रदास्यन्ते। मुख्यमन्त्रिणा स्मार्टदूरभाषयन्त्राणां वास्तविकसमय-दत्तांशस्य च उपयोगेन आङ्गनवाडीकन्द्राणि स्मार्टकन्द्ररूपेण विकसितुं घोषणापि कृता।
मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे अयोध्याधामे समन्वितबालविकाससेवाकार्यक्रमस्य अन्तर्गतं आयोजिते आङ्गनवाडीकर्मकर्यः सहायिकानां च सम्मानसमारोहे सम्बोधनं कुर्वन् आसीत्। अयोध्यायां प्रायः द्वादशसहस्राणि आङ्गनवाडीकर्मकर्यः सहायिकाश्च उपस्थिताः आसन्। तदतिरिक्तं प्रदेशस्य सर्वेषु पञ्चसप्ततिषु जनपदेषु आयोजितेभ्यः कार्यक्रमेभ्यः मन्त्रिणः, सांसदाः, विधायकाः, आङ्गनवाडीकर्मकर्यः सहायिकाश्च सम्बद्धाः आसन्। बुधवासरात् प्रारभ्यमाणस्य पोषणमासस्य पूर्वं मुख्यमन्त्रिणा आङ्गनवाडीकर्मकर्यः सहायिकानां च कृते मानधनवृद्धिः, नगदरहितस्वास्थ्यसुविधा, अतिरिक्तसाटिका, स्मार्टदूरभाषयन्त्रं चेति चतस्रः प्रमुखाः सौगाताः प्रदत्ताः।
स्वीयसम्बोधनात् पूर्वं मुख्यमन्त्रिणा कार्यक्रमस्थले आयोजितायां प्रदर्शिन्यां विभिन्नविभागानां प्रदर्शितानां वस्तूनां निरीक्षणं कृतम्। तेन महिलाभ्यः पुष्टाहारः प्रदत्तः तथा अनेकानां बालकानाम् अन्नप्राशनसंस्कारः अपि कारितः।
सेवायाः उदाहरणं जाताः आङ्गनवाडीकर्मकर्यः
मुख्यमन्त्री उक्तवान् यत् २०१७ तमे वर्षे सर्वकारस्य गठनसमये आङ्गनवाडीकर्मकर्यः केवलं त्रिसहस्ररूप्यकाणि मानधनरूपेण प्राप्नुवन्ति स्म। सर्वकारेण तत् कार्यनिष्पादनाधारितव्यवस्थया सम्बद्धं कृत्वा अष्टसहस्ररूप्यकाणि कृतम्। अधुना तत् वर्धयित्वा द्वादशसहस्ररूप्यकाणि करिष्यते। सहायिकानां मानधनमपि १५०० रूप्यकेभ्यः वर्धयित्वा प्रथमं चतुःसहस्ररूप्यकाणि, अधुना षट्सहस्ररूप्यकाणि क्रियन्ते।
आङ्गनवाडीकर्मकर्यः सहायिकाश्च शताब्द्याः महत्तमायां महामारीरूपेण आगते कोरोनाकाले सहायकनर्स्-मिडवाइफ् तथा आशाकार्यकर्तृभिः सह महत्त्वपूर्णां भूमिकां निर्वहन्त्यः आसन्। ताः ग्रामे ग्रामे परीक्षणात् आरभ्य ‘दस्तक-अभियान’पर्यन्तं तथा सङ्क्रमितजनानां सेवायां स्वजीवनं संकटे स्थापयित्वा संलग्नाः आसन्।
मुख्यमन्त्रिणा उक्तं यत् सर्वाभ्यः आङ्गनवाडीकर्मकर्यः सहायिकाभ्यश्च तासां परिवारजनैः सह प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितस्वास्थ्यसुविधा प्रदास्यते। अस्याः सुविधायाः लाभः सूचीकृतचिकित्सालयेषु, सर्वकारीयचिकित्सालयेषु, चिकित्सामहाविद्यालयेषु च प्राप्तुं शक्यते। अद्यतनकाले प्रदेशस्य प्रायः पञ्चदशलक्षशिक्षकेभ्यः, शिक्षामित्रेभ्यः, अनुदेशकेभ्यश्च पञ्चलक्षरूप्यकपर्यन्तं नगदरहितस्वास्थ्यसुविधा प्रदत्ता अस्ति। आङ्गनवाडीकर्मकर्यः सहायिकाश्च अपि अस्याः सुविधायाः लाभं प्राप्नुयुरिति दीर्घकालात् आग्रहः आसीत्। अधुना सर्वकारेण ताभ्यः अपि एषा सुविधा प्रदातुं निर्णयः कृतः।
अधुना द्वयोः स्थाने तिस्रः शाटिकाः
मुख्यमन्त्रिणा सूचितं यत् प्रदेशस्य २.९१ लक्षाधिकानाम् आङ्गनवाडीकर्मकर्यः सहायिकानां च कृते साटिकाक्रयणाय धनराशिः विमोचिता अस्ति। एतावता ताभ्यः द्वे साटिके प्रदत्ते स्तः। अधुना अतिरिक्तायै एकस्यै साटिकायै ५०० रूप्यकाणि अतिरिक्ततया प्रदास्यन्ते। अस्मिन् कार्ये प्रदेशसर्वकारेण प्रायः विंशतिः कोटिरूप्यकाणां अतिरिक्तभारः वह्यते।
प्रथमचरणे १.२८ लक्षं स्मार्टदूरभाषयन्त्राणि अपि उपलब्धानि कारितानि सन्ति। एतेषां माध्यमेन योजनानां दत्तांशः वास्तविकसमये अभिलिखितुं शक्यते तथा आङ्गनवाडीकर्मकर्याणां कार्यमपि सुकरं भविष्यति।
प्रत्येकस्मै आङ्गनवाडीकन्द्राय स्वकीयं भवनं प्रदातुं लक्ष्यम्
बालकानां भविष्येन सह आङ्गनवाडीकर्मकर्याणां भूमिकां सम्बध्नन् मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन २०१८ तमे वर्षे तासां भूमिकायाः तुलना माता यशोदया सह कृता आसीत्। मातुः अनन्तरं लघुबालकानां प्रथमः संवादः आङ्गनवाडीकर्मकर्यः सहायिकाभिः सह भवति। बाल्यकालः स्वस्थः भविष्यति चेत् भारतं स्वस्थं, समर्थं, आत्मनिर्भरं विकसितं च भविष्यति।
गतैः नवभिः वर्षैः प्रदेशस्य ७० सहस्राधिकेषु आङ्गनवाडीकन्द्रेषु व्यवस्थितं स्वरूपं प्रदत्तम् अस्ति। सर्वकारस्य लक्ष्यं प्रत्येकस्मै आङ्गनवाडीकन्द्राय स्वकीयं भवनं प्रदातुम् अस्ति। अस्यार्थं राज्यवित्तायोगस्य धनराश्या अथवा पृथग्बजटेन भवनानां निर्माणं कारयिष्यते।
मद्यविक्रयमाफियाद्वारा सञ्चालितम् आसीत् बालानां पोषाहारव्यवस्थापनम्
पूर्ववर्तिसर्वकाराणां विषये आक्रमणं कुर्वन् मुख्यमन्त्री उक्तवान् यत् २०१७ तमवर्षात् पूर्वम् आङ्गनवाडीकन्द्राणि जीर्णावस्थायाम् आसन्। बालकाः उपवेष्टुं ताटं स्वयमेव आनयन्ति स्म। पेयजलस्य आवश्यकयन्त्राणां च अभावः आसीत्। केन्द्रसर्वकारः धनराशिं प्रददाति स्म, किन्तु पोषाहारे माफियायाः नियन्त्रणम् आसीत्। प्रदेशे बालकानां पोषाहारव्यवस्था मद्यमाफियाद्वारा सञ्चालिता आसीत्। सर्वकारः माफियाश्च व्यवस्थां नष्टं कुर्वन्ति स्म, अपकीर्तिं तु आङ्गनवाडीकर्मकर्यः सहायिकाश्च सहन्ते स्म।
अधुना पोषाहारव्यवस्था माफियातः मुक्तीकृता अस्ति। २०४ स्थानेषु महिलानां स्वयं सहायता-समूहानां माध्यमेन गृहप्रेषणीयपोषणाहारस्य संयन्त्राणि सञ्चाल्यन्ते।
समाजवादीपक्षः काङ्ग्रेसश्च राममन्दिरस्य विरोधं कृतवन्तौ
अयोध्यायाः परिवर्तनम् आङ्गनवाडीकन्द्राणां कायाकल्पेन सह सम्बध्नन् मुख्यमन्त्री उक्तवान् यत् दशकपूर्वम् अत्र पर्याप्ता विद्युत् न आसीत्, मार्गाः न आसन्, सुविधाश्च न आसन्। अद्य अयोध्यायां चतुर्मार्गीयमार्गाः, भव्यं रेलस्थानकं, महर्षिवाल्मीकिनाम्ना अन्तर्राष्ट्रीयविमानपत्तनं च अस्ति। रेलमार्गस्य एकरेखाव्यवस्था द्विरेखाव्यवस्थायां परिणता अस्ति। रामकीपैड्याः कायाकल्पः कृतः तथा अयोध्या देशस्य सौरनगरीरूपेण विकसिताऽस्ति।
समाजवादीपक्षः काङ्ग्रेसश्च उभौ दलौ राममन्दिरस्य विरोधं कृतवन्तौ। समाजवादीपक्षेण अयोध्यायां मार्गविस्तारस्य, रेलस्थानकस्य, विमानपत्तनस्य निर्माणस्य च विरोधः कृतः। एते परम्परायाः विकासस्य च विरोधिनः सन्ति। किन्तु तेषां विरोधेऽपि न राममन्दिरनिर्माणस्य अभियानं स्थगितम्, न च अयोध्यायाः विकासः। अद्य रामललाः भव्ये मन्दिरे विराजमानाः सन्ति तथा देशविदेशेभ्यः जनाः अयोध्यायाः परिवर्तनं द्रष्टुं आगच्छन्ति।
विविधाः जनाः सम्मानिताः
समारोहे साम्-मॅम्-वर्गात् सामान्यपोषणस्थितिं प्राप्तवद्भ्यः बालकेभ्यः तेषां अभिभावकेभ्यश्च, उत्कृष्टकार्यं कृतवद्भ्यः आङ्गनवाडीकन्द्रेभ्यः, एवरेस्ट् आधारशिविर-अभियाने भागं गृहीतवतीभ्यः बालिकाभ्यश्च सम्मानः प्रदत्तः।
अस्मिन् अवसरे कृषिमन्त्री सूर्यप्रतापशाही, महिलाकल्याण-बालविकास-पुष्टाहारमन्त्री बेबीरानीमौर्या, महिलाकल्याणराज्यमन्त्री प्रतिभाशुक्ला, अयोध्यामहापौरः पण्डितगिरीशपतित्रिपाठी, जिलापञ्चायताध्यक्षः रोलीसिंहः, विधानपरिषदः सदस्यः हरिओम्पाण्डेयः, अयोध्यासदरविधायकः वेदप्रकाशगुप्तः, रुदौलीविधायकः रामचन्द्रयादवः, मिल्कीपुरविधायकः चन्द्रभानुपासवानः, गोसाईगञ्जविधायकः डॉ. अमितसिंहचौहानः, अभयसिंहः, महिलाकल्याण-बालविकासविभागस्य अपरमुख्यसचिवा लीनाजौहरी तथा प्रदेशस्य जनपदस्य च अन्ये गणमान्याः अतिथयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani