जीटीए-मध्ये प्रशासकस्य नियुक्तिः, प्रधानसचिवः स्मृतिरञ्जन-मोयन्तिः नूतनं दायित्वं प्राप्तवान्।
सिलीगुड़ी, 08 सितंबरमासः (हि.स.)। गोरखालैण्ड-टेरिटोरियल्-एड्मिनिस्ट्रेशन (जीटीए)-मध्ये दीर्घकालतः प्रचलितं प्रशासनिकं गतिरोधं समाप्तुं पश्चिमबङ्गाल-सर्वकारेण महत्त्वपूर्णं पदक्षेपं कृतम्। राज्यसर्वकारेण जीटीए-प्रधानसचिवः स्मृतिरञ्जन-मोहन्तिः प्रशास
जीटीए-मध्ये प्रशासकस्य नियुक्तिः, प्रधानसचिवः स्मृतिरञ्जन-मोयन्तिः नूतनं दायित्वं प्राप्तवान्।


सिलीगुड़ी, 08 सितंबरमासः (हि.स.)। गोरखालैण्ड-टेरिटोरियल्-एड्मिनिस्ट्रेशन (जीटीए)-मध्ये दीर्घकालतः प्रचलितं प्रशासनिकं गतिरोधं समाप्तुं पश्चिमबङ्गाल-सर्वकारेण महत्त्वपूर्णं पदक्षेपं कृतम्। राज्यसर्वकारेण जीटीए-प्रधानसचिवः स्मृतिरञ्जन-मोहन्तिः प्रशासकस्य दायित्वे नियुक्तः। अस्मिन् विषये गृह-पर्वतीयकार्य-विभागस्य पक्षतः आधिकारिकं विज्ञप्तिपत्रं प्रकाशितम्।

वस्तुतः जून-मासे जीटीए-मुख्यकार्यकारी अनित-थापा स्वपदात् त्यागपत्रं दत्तवान्। ततः प्रभृति दार्जिलिङ्ग-स्थिते लालकोठी-कार्यालये नेतृत्वसंकटं वर्तते स्म। मण्डलस्य अभावे पर्वतीयक्षेत्रस्य बहूनां विकासकार्याणां प्रभाविता जाता इति सूचना समुपलब्धा आसीत्।

अधुना निर्वाचनं यावत् प्रशासनिकव्यवस्थां सुव्यवस्थितरूपेण सञ्चालयितुं राज्यसर्वकारेण प्रधानसचिवः स्मृतिरञ्जन-मोहन्तिः प्रशासकरूपेण नियुक्तः।

अनेन निर्णयेन जीटीए-प्रशासनिककार्याणां विकासपरियोजनानां च गतिः पुनः तीव्रा भवितुं शक्यते इति मन्यते। दार्जिलिङ्गस्य सांसदः राजू-बिष्टः राज्यसर्वकारस्य अस्य निर्णयस्य स्वागतं कृतवान्।

अपरतः राजनीतिक-प्रशासनिकविशेषज्ञाः मन्यन्ते यत् पर्वतीयक्षेत्रे दीर्घकालतः प्रचलितस्य प्रशासनिकगतिरोधस्य निवारणस्य दिशि एषा नियुक्तिः महत्त्वपूर्णं पदक्षेपं सिद्धा भवितुमर्हति।

सम्प्रति जीटीए-निर्वाचनं कदा भविष्यति इत्यस्मिन् विषये स्थितिः स्पष्टा नास्ति। निर्वाचनं यावत् प्रशासकस्य माध्यमेन जीटीए-कार्यकलापाः सञ्चालयिष्यन्ते।

Hindusthan Samachar / Dheeraj Maithani