नगाँव-लोकसभोपनिर्वाचनाय भाजपाप्रत्याशिनः घोषणा द्वयो: दिवसयो: करिष्यते – मुख्यमन्त्री
गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री हिमन्तबिस्वसर्मा मङ्गलवासरे अवदत् यत् नगाँव-लोकसभोपनिर्वाचनाय भारतीयजनतापक्षस्य प्रत्याशिनः नाम अद्य आरभ्य एक-द्विदिनाभ्यन्तरे घोषयिष्यते। मुख्यमन्त्री अद्य समन्वयक्षेत्रे पत्रकारैः सह वार्ता
CM Sarma मुख्यमंत्री हिमंत


गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री हिमन्तबिस्वसर्मा मङ्गलवासरे अवदत् यत् नगाँव-लोकसभोपनिर्वाचनाय भारतीयजनतापक्षस्य प्रत्याशिनः नाम अद्य आरभ्य एक-द्विदिनाभ्यन्तरे घोषयिष्यते। मुख्यमन्त्री अद्य समन्वयक्षेत्रे पत्रकारैः सह वार्तालापं कुर्वन् आसीत्।

अन्यस्मिन् प्रश्ने मुख्यमन्त्री अवदत् यत् सिलचर-नगरनिगमस्य निर्वाचनाय भारतीयजनतापक्षस्य प्रत्याशिनां सूची अपि बुधवासरे प्रकाशितुं प्रयासः करिष्यते।

सः अवदत् यत् भारतीयजनतापक्षस्य कार्यकारिणीसमित्याः सभायां प्रधानमन्त्री नरेन्द्रमोदिनः २५-वर्षीयस्य सार्वजनिक-जीवनस्य सेवासङ्कल्पेन सम्बद्धस्य अभियानस्य विषये अपि चर्चा अभवत्। एतदभियानं १७ सेप्टेम्बरमासात् १७ अक्टोबरमासपर्यन्तम् आयोजयिष्यते।

Hindusthan Samachar / Divya Ranjan