मुख्यमन्त्री सायः अद्य नगरीयप्रशासनविभागस्य समीक्षां करिष्यति, सांस्कृतिकसन्ध्याकार्यक्रमेऽपि सम्मिलितो भविष्यति
रायपुरम्, ०८ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गल-वासरे मन्त्रालये नगरीयप्रशासन-विकासविभागस्य समीक्षासभायाः अध्यक्षतां करिष्यति। तेन सह सः सायङ्काले लोकभवने स्थिते छत्तीसगढमण्डपे आयोजिते सांस्कृतिक-सन्ध्याकार्यक्रमेऽपि सम्म
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, ०८ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गल-वासरे मन्त्रालये नगरीयप्रशासन-विकासविभागस्य समीक्षासभायाः अध्यक्षतां करिष्यति। तेन सह सः सायङ्काले लोकभवने स्थिते छत्तीसगढमण्डपे आयोजिते सांस्कृतिक-सन्ध्याकार्यक्रमेऽपि सम्मिलितो भविष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:४५ वादने मन्त्रालयं प्राप्स्यति। ततः अपराह्णे १२:०० वादनतः २:०० वादनपर्यन्तं नगरीयप्रशासन-विकासविभागस्य समीक्षासभायाः अध्यक्षतां करिष्यति।

सायं ५:२५ वादने मुख्यमन्त्रिणिवासं प्रत्यागत्य सः ५:५० वादने लोकभवनाय प्रस्थास्यति। सायं ६:०० वादनतः ७:३० वादनपर्यन्तं सः लोकभवने स्थिते छत्तीसगढमण्डपे आयोजिते सांस्कृतिक-सन्ध्याकार्यक्रमे सम्मिलितो भविष्यति।

Hindusthan Samachar / Divya Ranjan