भारत-रत्नस्य डॉ. भूपेनहजारिका इत्यस्य जन्मशताब्द्यां राज्यव्यापिनः श्रद्धाञ्जलिकार्यक्रमाः
गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। भारत-रत्नेन सम्मानितस्य महान् सङ्गीतकारस्य डॉ. भूपेनहजारिका इत्यस्य जन्मशताब्द्यवसरे अद्य सम्पूर्णे असमे विविधैः कार्यक्रमैः तस्मै श्रद्धाञ्जलिः प्रदीयते। जालुकबाड़ीस्थं समन्वयतीर्थम् अस्य विशेषावसरस्य कृते आकर
File photo: Dr Bhupen Hazarika डॉ भूपेन हजारिका


गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। भारत-रत्नेन सम्मानितस्य महान् सङ्गीतकारस्य डॉ. भूपेनहजारिका इत्यस्य जन्मशताब्द्यवसरे अद्य सम्पूर्णे असमे विविधैः कार्यक्रमैः तस्मै श्रद्धाञ्जलिः प्रदीयते।

जालुकबाड़ीस्थं समन्वयतीर्थम् अस्य विशेषावसरस्य कृते आकर्षकरूपेण अलङ्कृतम् अस्ति। अत्र गीत-सङ्गीत-सांस्कृतिककार्यक्रमैश्च सुधाकण्ठः डॉ. भूपेनहजारिका स्मर्यते। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अपि जालुकबाड़ीस्थे समन्वयतीर्थे आयोजिते कार्यक्रमे उपस्थितः अस्ति।

इत्येतस्मिन् मध्ये डॉ. भूपेनहजारिका इत्यस्य जन्मशताब्द्युपलक्ष्ये भारतीय-जनतापक्षस्य असमप्रदेशस्य राज्य-सांस्कृतिकप्रकोष्ठस्य पक्षतः अद्य वशिष्ठ-चारि-आलीस्थे अटलबिहारीवाजपेयीभवने श्रद्धाञ्जलिकार्यक्रमः आयोजितः अस्ति।

जन्मशताब्द्यवसरे सम्पूर्णे राज्ये गीत-सङ्गीतैः विविधैः सांस्कृतिककार्यक्रमैश्च महान् कलाकारः डॉ. भूपेनहजारिका श्रद्धापूर्वकं स्मर्यते।

Hindusthan Samachar / Divya Ranjan