सङ्घस्य कार्यपद्धतौ निहितं मानवसंसाधनप्रबन्धनम् आधृत्य नितिनगडकरीकृतपुस्तकस्य अनुवादयोः लोकार्पणम्
नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घे मानवसंसाधनानां व्यवस्थायाः च प्रबन्धनं न कस्याश्चित् पारम्परिककक्षायाः अथवा उपदेशस्य माध्यमेन, अपि तु दैनिकशाखया, संस्कारैः व्यावहारिककार्यपद्धत्या च व्यक्तेः अन्तः स्वाभाविकरूपेण विकसितं
राम बहादुर राय केंद्रीय सड़क और परिवहन मंत्री नितिन गडकरी की पुस्तक विमोचन के दौरान।


नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घे मानवसंसाधनानां व्यवस्थायाः च प्रबन्धनं न कस्याश्चित् पारम्परिककक्षायाः अथवा उपदेशस्य माध्यमेन, अपि तु दैनिकशाखया, संस्कारैः व्यावहारिककार्यपद्धत्या च व्यक्तेः अन्तः स्वाभाविकरूपेण विकसितं भवति। एतदेव आधृत्य केन्द्रीयसड़कपरिवहन-राजमार्ग-मन्त्रिणः नितिनगडकरी इत्यस्य पुस्तकस्य हिन्दी-अङ्ग्लभाषयोः अनुवादयोः मङ्गलवासरे अत्र लोकार्पणं कृतम्।

मूलतः मराठीभाषायां प्रकाशितस्य ‘संघातील मानवी व्यवस्थापन: एक स्वयंसेवकाच्या नजरेतून’ इति पुस्तकस्य हिन्दी-अङ्ग्लभाषयोः अनुवादः रूपा-पब्लिकेशन्स-प्रकाशनेन ‘आरएसएस में मानव संसाधन प्रबंधन : मेरे अनुभव और सीख’ इति नाम्ना प्रकाशित:। नवदिल्ली इत्यस्य २, मोतीलालनेहरू-प्लेस इत्यत्र आयोजिते कार्यक्रमे गडकरी सञ्चार-माध्यमप्रतिनिधिभिः गणमान्यैः अतिथिभिश्च सह संवादं कृतवान्।

ते अवदन् यत् सङ्घे मानवसंसाधनानां व्यवस्थायाः च प्रबन्धनं कस्याश्चित् पारम्परिककक्षायाः अथवा उपदेशस्य माध्यमेन न, अपि तु दैनिकशाखया, संस्कारैः व्यावहारिककार्यपद्धत्या च विकसितं भवति। ते अवदन् यत् राष्ट्रियस्वयंसेवकसङ्घस्य अखिल-भारतीयविद्यार्थिपरिषदः च कार्यपद्धतिभ्यः दलनिर्माणस्य, कार्यविभाजनस्य, अधि-काराणां विकेन्द्रीकरणस्य, वित्तीयलेखा-परीक्षणेन सह कार्य-प्रदर्शनस्य लेखा-परीक्षणस्य च बोधः विकसितः भवति।

पुस्तके सङ्घस्य इतिहासस्य अथवा प्रमुखव्यक्तीनां पारम्परिकवर्णनस्य स्थाने शाखाप्रणाल्याः, मानवसंसाधनविकासस्य, सेवाभावस्य कार्यकर्तृप्रबन्धनस्य च कार्यपद्धतेः विश्लेषणं कृतम् अस्ति। इदं पुस्तकं भारतीयसन्दर्भे मानवसंसाधन-प्रबन्धनं, दलभावनां कार्यकुशलतां च अवगन्तुं दृष्टिकोणं प्रस्तौति।

गडकरीः अवदन् यत् दृढराजनैतिकेच्छा-शक्त्या समर्पितदलेन च सीमितसंसाधनैः अपि महत्त्वपूर्णानि कार्याणि कर्तुं शक्यन्ते। उदाहरणं दत्त्वा ते अवदन् यत् लोकनिर्माणविभागे १९ सहस्रं कर्मचारी ३६०० कोटिरूप्यकाणां वित्तविवरणस्य व्यवस्थापनं कुर्वन्ति स्म, यदा तु महाराष्ट्रराज्यसड़कविकास-निगमेन ४९ जनानां समर्पितेन दलेन ८००० कोटिरूप्यकेभ्यः अधिकमूल्यानि परियोजनानि पूर्णानि कृतानि।

Hindusthan Samachar / Divya Ranjan