Enter your Email Address to subscribe to our newsletters

लखनऊ, 08 सितंबरमासः (हि.स.)
लखनऊनगरी शीघ्रमेव गोमतीजैवविविधतापार्कस्य सौगातं प्राप्स्यति। लखनऊनगरविकासप्राधिकरणस्य उपाध्यक्षः प्रथमेशकुमारः मङ्गलवासरे उद्यानस्य निरीक्षणं कृत्वा पञ्चदश-अक्टूबरपर्यन्तं सर्वाणि कार्याणि पूर्णं कारयितुं निर्देशान् दत्तवान्। ततः परम् उद्यानं नागरिकेभ्यः उद्घाटितं भविष्यति। एतदुद्यानं नगराय हरितिमानं प्रदास्यति, युवभ्यश्च जैवविविधतायाः परिचयं कारयिष्यति।
लखनऊनगरविकासप्राधिकरणस्य उपाध्यक्षः प्रथमेशकुमारः अवदत् यत् गोमतीनगरे दयालपैराडाइज्-चतुष्पथस्य समीपे सहारासमूहेन प्रत्यर्पितायाः हरितपट्टिकायाः पञ्चविंशतिः एकर्-परिमितायां भूमौ नगरस्य प्रथमं जैवविविधतापार्कं विकसितं क्रियते। प्रायः चतुर्दशकोटिरूप्यकाणां व्ययेन विकसिते अस्मिन् उद्याने प्रजापतिउद्यानम्, कीटपरागणोद्यानम्, प्रकृतिपथः, पथमार्गः, बालक्रीडाक्षेत्रम्, जलाशयः, निरीक्षणस्तम्भः, सीमाप्राकारः, वाहनस्थानम्, प्रवेशद्वारम्, कार्यालयं च निर्मीयते। तदतिरिक्तं जनानां सुविधार्थं स्थाने स्थाने विश्राममण्डपाः आसन्दिकाश्च स्थाप्यन्ते।
पक्षिणः आकर्षयिष्यति उद्यानम्
गोमतीजैवविविधतापार्कः देशीयानां प्रवासिपक्षिणां च प्राकृतिकवासस्थानस्य दृष्ट्या सज्जीक्रियते। गोमतीनद्याः जलग्रहणक्षेत्रे प्राप्यमाणानां पादपानां विविधाः प्रजातयः, याः सम्प्रति विलुप्तिप्राये सन्ति, ताः एकत्रीकृत्य उद्याने संरक्ष्यन्ते। एतदुद्यानं पर्यावरणपर्यटनस्य शैक्षिकदृष्ट्या च महत्त्वपूर्णं सिद्धं भविष्यति। उपाध्यक्षः अवदत् यत् पञ्चदश-अक्टूबरपर्यन्तं सर्वाणि कार्याणि पूर्णं कारयित्वा उद्यानम् उद्घाटयितुं निर्देशाः दत्ताः सन्ति।
आइजीपी-मध्ये भविष्यति आधुनिकः सभागारः
इन्दिरागान्धीप्रतिष्ठानस्य उन्नयनकार्यस्य अन्तर्गतं अर्थ-ब्लाके एकशतपञ्चाशत्-जनानां क्षमतायुक्तः अत्याधुनिकः सभागारः विकसितः क्रियते। लखनऊनगरविकासप्राधिकरणस्य उपाध्यक्षः स्थलस्य निरीक्षणं कृत्वा त्रिंशत्-सितम्बरपर्यन्तं सभागारं सज्जं कर्तुं निर्देशान् दत्तवान्। तथैव सैटर्न-ब्लाके नवीनीक्रियमाणस्य षट्शत्-जनानां क्षमतायुक्तस्य विवाहसभागारस्य पञ्चविंशतिः-अक्टूबरपर्यन्तं सञ्चालनस्य समयसीमा निर्धारिता अस्ति। अस्मिन् क्रमे उपाध्यक्षः बजट्-होटलस्य निरीक्षणं कृत्वा कार्येषु तीव्रतां आनेतुं निर्देशान् दत्तवान्।
हिल्टन्-होटलस्य निरीक्षणम्
विभूतिखण्डे हिल्टन् गार्डेन-होटले नवीनं भवनखण्डं निर्मितम् अस्ति। होटलप्रबन्धनेन पूर्णताप्रमाणपत्रस्य प्राप्तये प्राधिकरणे आवेदनं कृतम् आसीत्। तस्य क्रमे उपाध्यक्षः मङ्गलवासरे होटलस्य निरीक्षणम् अकरोत्। अस्मिन् अवसरे तेन विशेषरूपेण वाहनस्थानस्य, अग्निनिर्गमद्वारस्य, भवनस्य पृष्ठभागस्य, मलजलशोधनसंयन्त्रस्य च परीक्षणं कृतम्। उपाध्यक्षः होटलप्रबन्धनाय मलजलशोधनसंयन्त्रस्य सञ्चालनसम्बद्धं अग्निशमनविभागस्य अनापत्तिप्रमाणपत्रं च प्रस्तुतुं निर्देशान् दत्तवान्। निरीक्षणे मुख्याभियन्ता मानवेन्द्रसिंहः, कार्यपालकाभियन्ता अजीतकुमारः, मनोजसागरः इत्यादयः अन्ये अधिकारिणः अभियन्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani