Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०८ सितम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओमबिरला, रक्षामन्त्री राजनाथसिंहः अन्ये च बहवः नेतारः मङ्गलवासरे केन्द्रीय-वस्त्रमन्त्री गिरिराजसिंहस्य जन्मदिनावसरे तस्मै हार्दिक्यः शुभकामनाः प्रदत्तवन्तः।
प्रधानमन्त्री मोदी सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान्, “मन्त्री गिरिराजसिंहाय जन्मदिनस्य अनेकाः शुभकामनाः। सः वस्त्रक्षेत्रस्य सुदृढी-करणाय अनेकान् प्रयत्नान् करोति। एतत् क्षेत्रं भारतीयपरम्परया सह गहनतया सम्बद्धम् अस्ति तथा च अस्माकम् आत्मनिर्भरभारतस्य सङ्कल्पस्य साकार-करणाय अत्यन्तं महत्त्वपूर्णम् अस्ति। तस्य दीर्घस्य स्वस्थस्य जीवनस्य च कामनां करोमि।”
ओमबिरला उक्तवान् यत् सः ईश्वरात् तस्य स्वस्थस्य, प्रफुल्लितस्य मङ्गलमयस्य च जीवनस्य कामनां करोति। राजनाथसिंहः उक्तवान् यत् गिरिराजसिंहः जनसामान्यैः सह सम्बद्धः सन् महान् कर्मठतया देशस्य समाजस्य च विकासाय कार्यं करोति। ईश्वरः तं स्वस्थं रक्षतु तथा च दीर्घायुषं करोतु।
केन्द्रीयगृहसहकारितामन्त्री अमितशाहः उक्तवान् यत् मोदीमहोदयस्य नेतृत्वे वस्त्रोद्योगस्य प्रोत्साहनाय कुविन्दानां शिल्पिनां च आत्मनिर्भरनिर्माणस्य दिशि सः प्रशंसनीयं कार्यं करोति। केन्द्रीयमार्ग-परिवहनराजमार्गमन्त्री नितिनगडकरी उक्तवान् यत् सः ईश्वरात् गिरिराजसिंहस्य उत्तमस्वास्थ्यस्य, दीर्घायुषः सुखमय-जीवनस्य च कामनां करोति। भारतीय-जनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः अपि गिरिराजसिंहस्य उत्तमस्वास्थ्यस्य, सुखमयजीवनस्य दीर्घायुषश्च कामनाम् अकरोत्।
Hindusthan Samachar / Divya Ranjan