फतेहाबादः—निराश्रितगोवंशस्य मानवसेवायाश्च उत्तमम् उदाहरणम् अस्ति आश्रमः : रामचन्द्रकम्बोजः
फतेहाबादम्, 08 सितंबरमासः (हि.स.)। हरियाणागोसेवायोगस्य अध्यक्षः तथा रानियानगरस्य पूर्वविधायकः रामचन्द्रकम्बोजः मङ्गलवासरे फतेहाबादनगरे राष्ट्रिय-राजमार्गस्य बाईपासमार्गस्य समीपे स्थितं सत्गुरुकृपाऽप्नागृहमङ्गलराधिकासदानन्दसेवाधाम इति आश्रमं विशेषरू
फतेहाबाद। श्री सतगुरू कृपा अपना घर आश्रम में हरियाणा गौसेवा आयोग के चेयरमैन रामचन्द्र कम्बोज को सम्मानित करते सेवादार।


फतेहाबादम्, 08 सितंबरमासः (हि.स.)। हरियाणागोसेवायोगस्य अध्यक्षः तथा रानियानगरस्य पूर्वविधायकः रामचन्द्रकम्बोजः मङ्गलवासरे फतेहाबादनगरे राष्ट्रिय-राजमार्गस्य बाईपासमार्गस्य समीपे स्थितं सत्गुरुकृपाऽप्नागृहमङ्गलराधिकासदानन्दसेवाधाम इति आश्रमं विशेषरूपेण अगच्छत्। डॉ. स्वामिश्रीसदानन्दजीमहाराजस्य पावनसन्निधाने सञ्चालिते अस्मिन् आश्रमे प्राप्ते अध्यक्षस्य संस्थायाः प्रमुखसेवकाभ्यां विनोदतायल-अशोकभुक्कराभ्यां पुष्पगुच्छं समर्प्य स्वागतं कृतम्।

आश्रमपरिसरं प्राप्य अध्यक्षः रामचन्द्रकम्बोजः सद्गुरुकृपाऽप्नागृहम्, श्रीकृष्णप्रणामीवृद्धाश्रमं तथा महिलाश्रमं च अवलोकितवान्। तत्र निवसतां निराश्रितवृद्धानां, महिलानां, मन्दबुद्धिजनानां च सह आत्मीयतया सम्भाषणं कृत्वा तेषां कुशलक्षेमं ज्ञातवान् तथा तेभ्यः फलानि वितरितवान्। ततः हरियाणागोसेवायोगस्य अध्यक्षः श्रीकृष्णप्रणामीगोवंशानुसन्धानसंस्थानं गोचिकित्सालयं च प्राप्तवान्, यत्र रोगिणां, असहायानां दुर्घटनाग्रस्तानां च गोवंशानां चिकित्सायाः संरक्षणस्य च व्यवस्थाः सूक्ष्मतया निरीक्षितवान्। सः अत्यन्तं श्रद्धापूर्वकं गोमातरं स्वहस्ताभ्यां हरिततृणं भोजितवान् तथा पूजाऽर्चनां कृत्वा आशीर्वादं प्राप्तवान्।

गोसेवायाः आश्रमव्यवस्थानां च विषये स्वविचारान् व्यक्तयन् अध्यक्षः रामचन्द्रकम्बोजः अवदत्—भारतीयसंस्कृतौ गोमातुः सर्वोच्चं स्थानं प्रदत्तम् अस्ति। गोसेवा केवलं धार्मिकं कार्यं न, अपितु सा अस्माकं संस्कृतेः जीवनपद्धतेः च आत्मा अस्ति। पीडितस्य, रोगिणः निराश्रितस्य च गोवंशस्य सेवा जगतः सर्वाधिकं पवित्रं निष्कामं च कर्म अस्ति। ये संस्थानाः एवं प्रकारेण दिवानिशं गोमातुः चिकित्सायां संरक्षणे च संलग्नाः सन्ति, ते समाजाय अनुकरणीयाः सन्ति।

सः अग्रे अवदत् यत् राज्यसर्वकारः गोसेवायोगश्च प्रदेशे गोसंवर्धनस्य, संरक्षणस्य, गोशालानां सुदृढीकरणस्य च कृते पूर्णप्रतिबद्धतया कार्यं कुर्वतः स्तः। नरसेवां नारायणसेवां कथयन् सः आश्रमप्रबन्धनेन उत्कृष्टस्वच्छतायाः मानवीयसंवेदनाभिः सह क्रियमाणायाः सेवाप्रणाल्याः च भूरिशः प्रशंसां कृतवान्।

कार्यक्रमस्य अन्ते आश्रमस्य प्रमुखसेवकाभ्यां विनोदतायल-अशोकभुक्कराभ्यां अध्यक्षः रामचन्द्रकम्बोजः शाटिकां परिधाप्य स्मृतिचिह्नं च समर्प्य सम्मानितः। अस्मिन् अवसरे बालीमित्तलः, नरेन्द्रसिङ्गला, सुशीलबन्सलः, राकेशबन्सलः, रामनिवासबन्सलः, रमेशमेहूवाला, राकेशः अधिवक्ता इत्यादयः नगरस्य अनेकाः गणमान्यजनाः आश्रमस्य सेवकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani