बाङ्ग्लाभिनेता उत्तमकुमारस्य जन्मशत्यब्द्यां १०० रूप्यकाणां स्मारकसिक्का इति निर्गमिष्यते
नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। केन्द्रसर्वकारः बाङ्ग्लचलचित्रजगतः महानभिनेता ‘महानायकः’ उत्तमकुमारस्य जन्मशत्यब्द्याः अवसरे १०० रूप्यकाणां विशेषस्मारकसिक्कं निर्गमयिष्यति।वित्तमन्त्रालयस्य अधीनस्थेन आर्थिक-कार्यविभागेन अस्मिन् विषये आधिकारिकर
अभिनेता उत्तम कुमार का फाइल फोटो


नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। केन्द्रसर्वकारः बाङ्ग्लचलचित्रजगतः महानभिनेता ‘महानायकः’ उत्तमकुमारस्य जन्मशत्यब्द्याः अवसरे १०० रूप्यकाणां विशेषस्मारकसिक्कं निर्गमयिष्यति।वित्तमन्त्रालयस्य अधीनस्थेन आर्थिक-कार्यविभागेन अस्मिन् विषये आधिकारिकराजपत्रसूचना प्रकाशिता अस्ति। आर्थिककार्यविभागस्य सूचना-नुसारं १०० रूप्यकाणाम् इदं स्मारकरुप्यकं ९९.९ प्रतिशतशुद्धरजतेन निर्मितं भविष्यति तथा अस्य व्यासः ४४ मिलीमीटरमितः भविष्यति।

बाङ्ग्लचलचित्रजगतः प्रख्यातस्य अभिनेतुः उत्तमकुमारस्य जन्म ०३ सेप्टेम्बरमासे, १९२६ तमे वर्षे अभवत्। तस्य वास्तविकं नाम अरुणकुमार-चट्टोपाध्यायः आसीत्। सः भारतीयचलचित्रजगतः सर्वाधिक-प्रतिष्ठितेषु अभिनेतृषु परिगण्यते। बाङ्ग्लचलचित्रोद्योगे च सः ‘महानायकः’ इति नाम्ना स्मर्यते।

कुमारः स्वस्य चलचित्रजीवनकाले द्विशताधिकेषु चलचित्रेषु अभिनयम् अकरोत्। २४ जुलाईमासे, १९८० तमे वर्षे ५३ वर्षस्य वयसि तस्य निधनम् अभवत्।

Hindusthan Samachar / Divya Ranjan