Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 08 सितंबरमासः (हि.स.)।
संयुक्तराज्य-अमेरिकादेशस्य वाणिज्यविभागेन सोमवासरे उक्तं यत् भारतम् अग्रिमपीढ्याः षष्ठपीढी-दूरसञ्चार-जालस्य विकासाय वैश्विकोपक्रमे अमेरिकादेशेन अन्यैः चतुर्विंशतिभिः देशैः सह निर्मिते गठबन्धने सम्मिलितः अभवत्। अस्योपक्रमस्य उद्देश्यं षष्ठपीढी-दूरसञ्चार-जालस्य विकासं प्रवर्धयितुम् अस्ति।
तदतिरिक्तं अमेरिकादेशस्य वाणिज्यसचिवः हावर्ड् लटनिकः जी-विंशतिः नवाचारमन्त्रिस्तरीयसम्मेलनस्य अवसऱे भारतस्य वाणिज्यराज्यमन्त्रिणा जितिन् प्रसादेन सह मिलित्वा षष्ठपीढी-दूरसञ्चारस्य भविष्ये विषये चर्चां कृतवान्।
अमेरिकादेशस्य वाणिज्यविभागेन सामाजिकमाध्यममञ्चे उक्तं—“अस्माभिः हर्षेण घोष्यते यत् भारतम् अमेरिकादेशेन अन्यैः चतुर्विंशतिभिः देशैः सह तस्मिन् प्रयत्ने सम्मिलितम् अस्ति, यस्य उद्देश्यं सुनिश्चितकर्तुं यत् अग्रिमपीढ्याः जालानि अस्माकं सामूहिकसुरक्षायाः आवश्यकताः पूरयेयुः, अस्माकं प्रतिस्पर्धात्मकतां सुदृढां कुर्युः तथा च षष्ठपीढ्याम् नवाचारं प्रोत्साहयेयुः।”
वाणिज्यविभागेन सामाजिकमाध्यममञ्चे प्रकाशिते सन्देशे उक्तं यत् अयं समझौता जी-विंशतिः नवाचारमन्त्रिस्तरीयसम्मेलनस्य अवसऱे वाणिज्यसचिवस्य हावर्ड् लटनिकस्य तथा केन्द्रीयवाणिज्य-उद्योगराज्यमन्त्रिणः जितिन् प्रसादस्य मध्ये सम्पन्नायाः द्विपक्षीयबैठक्याः अनन्तरं निर्धारितः अभवत्।
विभागेन लिखितम्—“लटनिकः जी-विंशतिः नवाचारमन्त्रिस्तरीयसम्मेलनस्य अवसऱे भारतस्य वाणिज्यराज्यमन्त्रिणा जितिन् प्रसादेन सह षष्ठपीढी-दूरसञ्चारस्य भविष्ये विषये चर्चां कर्तुं मिलितवान्।”
अमेरिकादेशस्य वाणिज्यविभागेन उक्तं यत् भारतम् अमेरिकादेशेन अन्यैः चतुर्विंशतिभिः देशैः सह अस्मिन् प्रयत्ने सम्मिलितम् अस्ति, येन सुनिश्चितं भवेत् यत् अग्रिमपीढ्याः जालानि अस्माकं सामूहिकसुरक्षायाः प्राथमिकतां प्रतिबिम्बयेयुः, अस्माकं प्रतिस्पर्धात्मकतां सुदृढां कुर्युः तथा च षष्ठपीढ्याम् नवाचारं प्रोत्साहयेयुः।
उल्लेखनीयं यत् भारतस्य केन्द्रीयराज्यमन्त्री जितिन् प्रसादः चैपल् हिल्, नॉर्थ् कैरोलिना इत्यत्र सितम्बरमासस्य प्रथमद्वितीययोः दिनयोः आयोजिते जी-विंशतिः नवाचारमन्त्रिस्तरीयसम्मेलने भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं कृतवान्। अस्य सम्मेलनस्य आतिथ्यं अमेरिकादेशस्य वाणिज्यविभागेन तथा श्वेतभवनस्य विज्ञान-प्रौद्योगिकी-नीतिविषयककार्यालयेन, ओएसटीपी इत्यनेन, संयुक्तरूपेण कृतम्।
लटनिकेन सह सम्पन्नायाः बैठक्याः उल्लेखं कुर्वन् प्रसादः सामाजिकमाध्यममञ्चे प्रकाशिते स्वकीये सन्देशे लिखितवान् यत् चर्चायाः मुख्यकेन्द्रम् आधुनिकप्रौद्योगिक्याः क्षेत्रस्य आधारभूतानां महत्त्वपूर्णानां क्षेत्राणां विकासः आसीत्।
प्रसादेन सामाजिकमाध्यममञ्चे उक्तम्—“अर्धचालकाः, कृत्रिमबुद्धिमत्ता, दत्तांशकेन्द्राणि—एतानि उद्भवमानस्य अङ्कीय-अर्थतन्त्रस्य महत्त्वपूर्णानि आधारस्तम्भानि सन्ति।”
---------------
Hindusthan Samachar / Dheeraj Maithani