दिल्ली इत्यत्र सङ्गीतकारस्य हत्यायां राजनीतिः न भवेत् - किरेनरिजिजू
नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। दक्षिणपूर्वदिल्ली इत्यत्र सम्प्रत्येव एकस्य सङ्गीतकारस्य कथितहत्यायाः प्रकरणे केन्द्रीयसंसदीयकार्य-अल्पसंख्यक-कार्याणां मन्त्री किरेनरिजिजू मङ्गलवासरे काङ्ग्रेसनेतुः राहुलगान्धिनः प्रतिक्रियायाः प्रत्युत्तरं दत्
केन्द्रीय मंत्री किरेन रिजिजू मीडिया से बात करते हुए।


नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। दक्षिणपूर्वदिल्ली इत्यत्र सम्प्रत्येव एकस्य सङ्गीतकारस्य कथितहत्यायाः प्रकरणे केन्द्रीयसंसदीयकार्य-अल्पसंख्यक-कार्याणां मन्त्री किरेनरिजिजू मङ्गलवासरे काङ्ग्रेसनेतुः राहुलगान्धिनः प्रतिक्रियायाः प्रत्युत्तरं दत्त्वा उक्तवान् यत् अस्यां दुःखदघटनायां राजनीतिः न कर्तव्या, अपि तु शीघ्रतया कठोरकार्यवाहीं कर्तुं सम्पूर्णं ध्यानं दातव्यम्।

रिजिजू माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् उक्तवान्, “ते अपि भारतीयाः सन्ति। पूर्वोत्तरप्रदेशस्य जनाः अपि भारतीयाः सन्ति। अयं राजनीतिं करणस्य विषयः नास्ति, अपि तु कठोरकार्यवाही भवेत्।” तेन उक्तं यत् रात्रौ विलम्बेन भोजनालयस्य कर्मचारिणां भोजनवितरणकार्यं कुर्वतां यूनां च मध्ये कस्यचित् विषयं प्रति विवादस्य समये एषा दुर्भाग्यपूर्णा घटना अभवत्। रात्रौ सहसा उत्पन्नस्य अस्य कलहस्य विषये कश्चिदपि ज्ञातुं न अशक्नोत्, किन्तु मृतकस्य पुत्रेण आरक्षकनियन्त्रणकक्षायां दूरभाषः कृतः अनन्तरं दिल्ली-आरक्षकविभागेन तत्परतया कार्यवाही कृता।

मन्त्रिणा उक्तं यत् सन्दिग्धाः घटनास्थलात् पलायिताः आसन्, तथापि दिल्ली-आरक्षकविभागेन अल्पसमये एव ते गृहीताः। यदा सः आरक्षकाधिकारिभ्यः आरोपपत्रस्य प्रस्तुतीकरणविषये पृष्टवान्, तदा तैः सूचितं यत् घटनायाः अष्टतः नवदिनानां मध्ये एव न्यायालये आरोपपत्रं प्रस्तुतं करिष्यते, येन अभियुक्तेभ्यः यथाशीघ्रं कठोरदण्डः प्रदातुं शक्येत।

राहुलगान्धिना अस्याः घटनायाः विषये सर्वकारं प्रति प्रश्नान् उत्थापितान् प्रति आपत्तिं प्रकटयन् रिजिजू पृष्टवान् यत् एतादृशीसु दुःखदघटनासु भारतीय-जनतापक्षः किमर्थं सम्बद्धः क्रियते। तेन उक्तं यत् यदा कस्यचित् मृत्युरूपा दुःखदघटना भवति, तदा नेतॄणां ध्यानं राजनीतिं कर्तुं स्थाने शीघ्रन्यायस्य सुनिश्चिततायै भवितव्यम्।

मन्त्रिणा आश्वासनं दत्तं यत् सर्वकारः पूर्वोत्तरप्रदेशस्य नागरिकाणां सुरक्षायै अधिकाराणां च विषये पूर्णतया गम्भीरः अस्ति। दिल्ली-आरक्षकविभागस्य अधीनं विशेषरूपेण कार्यरतः ‘नॉर्थ-ईस्ट स्पेशल पुलिस सेल’ इति विशेषारक्षकप्रकोष्ठः निरन्तरम् एतादृशेषु प्रकरणेषु दृष्टिं स्थापयति, येन कस्यामपि अप्रियस्थितौ तत्क्षणं कार्यवाहीं कर्तुं शक्येत। पूर्वापेक्षया अधुना स्थितिः परिवर्तिता अस्ति तथा च सुदृढा व्यवस्था निर्मिता अस्ति, यस्याः माध्यमेन दिल्ली इत्यत्र पूर्वोत्तरप्रदेशीय-जनैः सम्बद्धायां कस्यामपि घटनायाम् आरक्षकविभागेन शीघ्रं कार्यवाही क्रियते।

रिजिजू मणिपुरीसङ्गीतकारस्य सी. विक्रमसिंहस्य परिवारं प्रति गहनां संवेदनां प्रकटयन् तस्मै न्यायस्य आश्वासनं दत्तवान्। सः उक्तवान् यत् दोषिभ्यः एतादृशः कठोरदण्डः दातव्यः, येन समाजे एषः सन्देशः गच्छेत् यत् एतादृशाः हिंसात्मक-घटनाः केनापि रूपेण न सहिष्यन्ते।

उल्लेखनीयं यत् दक्षिणपूर्वदेहल्याः किलोकरीग्रामे रविवासरे रात्रौ विलम्बेन कोलाहलस्य उपद्रवस्य च विरोधं कृतवतः मणिपुरीसङ्गीतकारस्य सी. विक्रमसिंहस्य कथितरूपेण हत्या कृता। आरक्षकविभागेन भोजनालयकर्मचारिभिः भोजनवितरण-कार्यं कुर्वद्भिः युवभिः सह सर्वे अभियुक्ताः गृहीताः सन्ति।

Hindusthan Samachar / Divya Ranjan