Enter your Email Address to subscribe to our newsletters

धर्मशाला, 08 सितंबरमासः (हि.स.)।
हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागेन संस्कृतसप्ताहस्य उपलक्ष्ये संस्कृतभाषायाः, साहित्यस्य, संस्कृतेश्च विषये विद्यार्थिषु रुचिम् अभिरुचिं च वर्धयितुम् उद्दिश्य विविधाः प्रतियोगिताः आयोजिता:। प्रतियोगितासु विद्यालयीय-महाविद्यालयीयस्तरयोः विद्यार्थिनः भागं गृहीत्वा स्वप्रतिभां प्रदर्शितवन्तः। मुख्यवक्तृरूपेण संस्कृतभारती-सङ्गठनस्य उत्तरक्षेत्रस्य सङ्गठनमन्त्री नरेन्द्रकुमारः उपस्थितः आसीत्।
महाविद्यालयीयस्तरीयायां श्लोकोच्चारणप्रतियोगितायां त्रिगर्तसंस्कृतमहाविद्यालयस्य, श्रीचामुण्डायाः ईशानः प्रथमस्थानं, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य, धर्मशालायाः पीयूषः द्वितीयस्थानं, राजकीयमहाविद्यालयस्य, धर्मशालायाः अरुणः तृतीयस्थानं च प्राप्तवन्तः।
विद्यालयीयस्तरीयायां श्लोकोच्चारणप्रतियोगितायां केन्द्रीयविद्यालयस्य, योलस्य नियतिशर्मा प्रथमस्थानं, श्रीसत्यसाईएजुकेयरविद्याप्रतिष्ठानस्य समायरा तथा नैन्सी द्वितीयस्थानं, राजकीयवरिष्ठमाध्यमिकविद्यालयस्य, पास्सू इत्यस्याः राखी तथा तमन्ना तृतीयस्थानं च प्राप्तवत्यौ।
तथैव विद्यालयीयस्तरीयायां गीतप्रतियोगितायां धौलाधारपब्लिकस्कूलस्य आकाङ्क्षा प्रथमस्थानं, दीयाचौधरी तथा वंशिका द्वितीयस्थानं, श्रीसत्यसाईएजुकेयरविद्याप्रतिष्ठानस्य सोनाक्षी तथा दीक्षिता तृतीयस्थानं च प्राप्तवत्यः।
महाविद्यालयीयस्तरीयायां गीतप्रतियोगितायां त्रिगर्तसंस्कृतमहाविद्यालयस्य, श्रीचामुण्डायाः देवांशः प्रथमस्थानं, तस्यैव महाविद्यालयस्य ऋषिः द्वितीयस्थानं, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य महकः तृतीयस्थानं च प्राप्तवन्तः।
संस्कृतप्रश्नोत्तरीप्रतियोगितायाः विद्यालयवर्गे राजकीयवरिष्ठमाध्यमिकविद्यालयस्य, पासोः अनिका तथा महिमा प्रथमस्थानं, दयानन्दमॉडलवरिष्ठमाध्यमिकविद्यालयस्य, धर्मशालायाः अनिकेतसूदः तथा आन्या द्वितीयस्थानं, राजकीयवरिष्ठमाध्यमिकविद्यालयस्य, दाड्याः पल्लवीमङ्गलः तथा मोहम्मदउमेरः तृतीयस्थानं च प्राप्तवन्तः।
अस्याः एव संस्कृतप्रश्नोत्तरीप्रतियोगितायाः वरिष्ठवर्गे हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य, धर्मशालायाः विद्यार्थिन्यौ मनीषागोस्वामी तथा अङ्कितः प्रथमस्थानं प्राप्तवत्यौ, राजकीयमहाविद्यालयस्य, धर्मशालायाः रिद्धिमा तथा अङ्किता द्वितीयस्थानं, त्रिगर्तसंस्कृतमहाविद्यालयस्य, चामुण्डायाः अमितठाकुरः तथा वरुणः तृतीयस्थानं च प्राप्तवन्तः।
एतासु प्रतियोगितासु प्रथम-द्वितीय-तृतीयस्थानं प्राप्तवद्भ्यः विद्यार्थिभ्यः क्रमशः प्रथमपुरस्काररूपेण १००० रूप्यकाणि, द्वितीयपुरस्काररूपेण ७५० रूप्यकाणि, तृतीयपुरस्काररूपेण ५०० रूप्यकाणि नगदराशिः, संस्कृतभारतीसङ्गठनस्य पक्षतः प्रायः २५० रूप्यकमूल्यानि पुस्तकानि, प्रमाणपत्राणि च पुरस्काररूपेण प्रदत्तानि।
Hindusthan Samachar / Dheeraj Maithani