भारत-चीनदेशयोः सम्बन्धाः शनैः शनैः सकारात्मकदिशि प्रवर्धन्ते - विदेशमन्त्रालयः
नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। विदेशमन्त्रालयेन उक्तं यत् भारत-चीनदेशयोः सम्बन्धाः शनैः शनैः सकारात्मकदिशि अग्रे प्रवर्धन्ते। मन्त्रालयेन सम्बन्धानां सामान्यीकरणे जनानां परस्परसम्पर्कः महत्त्वपूर्णः इति प्रतिपादितम्। अस्मिन् सन्दर्भे वीजाराहत
MEA Spokesperson Randhir Jaiswal


नवदिल्ली, ०८ सेप्टेम्बरमासः (हि.स.)। विदेशमन्त्रालयेन उक्तं यत् भारत-चीनदेशयोः सम्बन्धाः शनैः शनैः सकारात्मकदिशि अग्रे प्रवर्धन्ते। मन्त्रालयेन सम्बन्धानां सामान्यीकरणे जनानां परस्परसम्पर्कः महत्त्वपूर्णः इति प्रतिपादितम्। अस्मिन् सन्दर्भे वीजाराहत्यं प्रमुखः भागः इति मन्त्रालयेन उक्तम्। भारतस्य मतम् अस्ति यत् उभयोः देशयोः व्यापकसम्बन्धानां प्रगतये सीमायां निरन्तरं शान्तिः स्थैर्यं च आवश्यकम्।

अन्यस्य प्रश्नस्य उत्तरं ददता मन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अवदत् यत् षड् सेप्टेम्बर-दिने अरुणाचलप्रदेशस्य वाचा-स्थले, सप्तमसेप्टेम्बर-दिने च चीनदेशस्य दमाई-स्थले भारत-चीनदेशयोः वरिष्ठ-सैन्याधिकारिणां स्तरस्य प्रथमा ध्वजमेलनसभा अभवत्।

प्रवक्ता अवदत्, “अगस्तमासे २०२५ तमे वर्षे तथा अगस्तमासे २०२६ तमे वर्षे भारत-चीनदेशयोः विशेषप्रतिनिधिभिः मध्ये जाता सहमतिः, ततः परं च मईमासे अगस्तमासे च २०२६ तमे वर्षे क्रमशः बीजिङ्गनगरे नवदेहल्यां च आयोजितयोः ‘परामर्श-समन्वययोः कार्यतन्त्रस्य’ सभयोः चर्चायाः आधारेण वरिष्ठसैन्याधिकारिस्तरस्य प्रथमा ध्वजमेलनसभा षड् सेप्टेम्बर-दिने अरुणाचलप्रदेशस्य वाचा-स्थले, सप्तम-सेप्टेम्बर-दिने च चीनपक्षस्य दमाई-स्थले आयोजिता। पश्चिमक्षेत्रेऽपि एतादृशी व्यवस्था विद्यते।”

उल्लेखनीयं यत् भारत-चीनयोः सम्बन्धेषु २०२५ तमात् वर्षात् शनैः शनैः सुधारस्य सङ्केताः प्राप्ताः। कैलास-मानसरोवरयात्रा पुनरारब्धा, प्रत्यक्षविमानसेवाः चीनी-नागरिकेभ्यः पर्यटकवीजासुविधा च पुनः प्रारब्धा, तथा नाथूला इत्यादयः सीमावाणिज्यमार्गाः पुनः उद्घाटिताः।

Hindusthan Samachar / Divya Ranjan